________________
प्र० वा० वृती (२ परिच्छेदः)
तदा विच्छिन्नदर्शनमेव नास्तीति वक्तुमाह (1)
२६८
अर्थस्य तत्संवित्तेश्च सततं भासमानयोः ||५००||
अर्थस्य ग्राह्यस्य तत्संवित्तेश्च विजातीयाव्यव' कीर्णत्वात् । सततं भासमानयोरनयोरविच्छेद भासनस्य ( 1५०० )
बाधकेऽसति सन्न्याये विच्छिन्न इति तत्कुतः । बुद्धीनां शक्ति नियमादिति चेत्स कुतो मतः ॥ ५०१ ॥
बाधके संश्चासौ न्यायश्च तस्मिन् प्रमाणभूते बाघकेऽसतीत्यर्थः । तेऽर्थसंवित्ती ज्ञानज्ञानेन विच्छिन्ने इति यदुच्यते तत्कुतः । बुद्धीनामेकैकबुद्धिजननशक्तिनियमात् न ग्राह्यबुद्धया सह तद्ग्राहिका बुद्धिर्भवति । ततो विच्छिन्न' तयाऽर्थदर्शनमिति चेत् । स युगपत् ज्ञानानुत्पादः कुतो हेतोर्मतः । ( ५०१ )
युगपद बुद्धटेश्चेत् तदेवेद विचार्यते ।
युगपद् बु(व्)ध्योरुत्पन्नयोरवृष्टेश्चेत् यद्यदर्शनं प्रमाणं विच्छेदस्यापि तदस्तीति सोप्ययुक्ताभ्युपगमः । अथ विच्छेदादर्शनेपि विचारात् सा सिध्यति तदा तदेवेदं युगपद् बुद्ध्यदर्शनमपि बाध्यतया न युगपद् बुद्धयुत्पादबाघनासमर्थमिति विचार्यते । तत् किमस्योपन्यासेन ।
च. न युगपत् चित्तद्वयसंप्रतिपत्तिः
नक्तं भगवता “स्था " " नमेतत् यत् द्वे चित्ते युगपत् संप्रतिपद्येयातामिति । तत्कथमित्याह (1)
तासां समानजातीये सामर्थ्यनियमो भवेत् ॥ ५०२ ॥
rai बुद्धीनां विकल्पिकानामिन्द्रियजानाञ्च समानजातीय एकस्मिन् ज्ञाने कर्त्तव्ये सामर्थ्यनियमस्तथा भगवता प्रतिपादितो भवेत् । ततो ग्राह्य ग्राहकमसमानजातीयं बुद्धिद्वयमपि सह जायेत । समानजातीयन्तु न सह जायते । (५०२)
१ इन्द्रियज्ञाने- अर्थोपि निरन्तरं भासते तज्ज्ञानमपि तदाकारं सम्वेद्यतेऽक्षसिद्धं । * प्रत्यभिज्ञा नेह विच्छेदावसायसाधकं किञ्चित्प्रमाणमस्ति ।
यस्मिन्विच्छेदे सति कल्पिकया घटनं । ४ वैभाष्यः स्ववित्तिं नेच्छति । अभिप्रायिकमेतत् । विषयज्ञानन्तदनुभवज्ञानञ्च ।