________________
स्वसंवित्तिसिद्धिः
इति वर्णेपि रूपादावविच्छिन्नावभासिनी ।
विच्छिन्नाप्यन्यया बुद्धिः सर्व्वा स्याद्वितथार्थिका ||४९७॥
इति तस्माद् वर्णेपि रू' पादावपि बुद्धिस्तद्ग्राहिकान्यया धियाऽन्तरिता वस्तुतो विच्छिन्नाप्यविच्छिन्नावभासिनी कुतश्चिन्निमिताद् भवन्ती सब 52b वितथार्थिका शून्या भ्रान्तिः स्यात् । ( ४९७ )
घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् । भेदालक्षणविभ्रान्तं स्मरणन्तद्विकल्पकं ॥ ४९८ ॥
• २६७
यच्च भावानां सदृशापरापरेषामुत्पद्यमानानां स एवायमित्येकत्वघटनं तद् भावानां परस्परतो भेवालक्षणेन विभ्रान्तं विकल्पकं ज्ञानं स्मरणं । अन्यत्रेन्द्रियविभ्रमात् । अतः पुनरलातादिषु भ्राम्यमाणेषु चक्राद्याकारं ज्ञानमुत्पद्यतेविन्द्रियक्रम निव्विकल्पक एव । ( ४९८ )
तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः । नाक्षप्रास्ति शब्दानां योजनेति विवेचितम् ॥४९९ ॥
तस्य विकल्पस्य जल्पसंसगिणः शब्दसंसर्गवतः स्पष्टावभासित्वं ज्ञेयाकारवैशद्यं कुतः । यस्मादाग्राह्ये स्वलक्षणे शब्दानां संकेताग्रहणात् वाचकत्वेन योजना नास्तीति विवेचितं प्राक् । ( ४९९ )
ङ. तदा न विच्छिन्नं दर्शनम्
विच्छिन्नं पश्यतोप्यक्षैर्घटयेद्यदि कल्पना ।
अथाक्षैरिन्द्रियज्ञानैः स्वज्ञानव्यवहितैरपरापरमथं विच्छिन्नं पश्यतोपि ज्ञानानुचरी कल्पना तदेवेदमित्येकत्वेन घटयेदिति यद्युच्यते (1)
यथा 'वर्णेषु प्रत्येकं विभ्रम एवं रूपादावपीति दाष्टन्तिककथनं । २ तन्माभूत् सर्व्वेन्द्रियज्ञानवितथत्वमिति नाविच्छिन्नभ्रमः स्वीकर्तव्यस्तवा च निरन्तरभानन्न स्यादस्ति चातः स्ववित्तिर्ज्ञानानां सिद्धा ।
* क्षणिकानां निरन्वयविनाशिनां । असति बाधके भानादेवानयोः प्रामाण्यं । " इन्द्रियवैगुण्ये तु न घटनं सकृदसवर्थप्रतिभासं स्पष्टमेव ज्ञानमत्र । यतोनेन वीर्घादिवर्णस्य प्रतिभासो गृह्येत ।
यश्चाक्षप्रत्ययः. स्पष्टप्रतिभासस्तस्य वर्णभागेष्वनुसन्धायी दीर्घादिप्रत्ययो नास्ति ।
●
ग्राहकज्ञानानुभवस्यानन्तरजा तृतीया ।