________________
२६६
प्र० वा० वृत्तौ (२ परिच्छेदः)
विच्छिन्ने दर्शने चाचादविच्छन्नाधिरोपणम् । नाक्षात्सर्व्वाक्षबुद्धीनां वितथत्वप्रसङ्गतः ॥४९४॥
वर्णावयवानाम' क्षादिन्द्रिया द्विच्छिन्ने स्वबुद्धिभिर्व्यवहिते च वस्तुतो दर्शनेऽक्षादविच्छिन्नस्य दर्शनस्याधिरोपणमारोप इति न युक्तं । एवं सर्व्वासामक्षबुद्धीनां रूपादिग्राहिणीनां वितथत्वप्रसङ्ग तो न किञ्चिदभ्रान्तं स्यात् । (४९४)
घ. बुद्धेर्बुद्धयन्तरेण गृहीतो नाविच्छेदप्रतिभास:
बुद्धेर्बुद्धयन्तरेण गृहीतावविच्छेदप्रतिभासो नास्तीति सोपपत्तिकमाख्यातुमाह (1)
सर्व्वान्त्योपि हि वर्णात्मा निमेषतुलितस्थितिः । स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥४९५|| सर्व्वेषां दीर्घादीनामेकमात्रिकत्वादन्त्यो वर्णात्माऽकारादिनिमेषेण नयननि * मीलनेन तुलिता परिमिता स्थितिर्यस्य स तथा । स चाक्षिनिमेषकालस्थाय्यकारादिरनेकेषामाकाशतमः संज्ञितानां पक्ष्ममालाद्वयवर्त्तिनामणूनां सम्बन्धेनाक्रमणेन निमेषकालसंज्ञितेन क्रमाद् भूयः क्षणव्यवधानान्नितिष्ठति परिसमाप्यते । एतेनान्त्योपि वर्णोऽनेकक्षणस्थायीत्युक्तं । ( ४९५)
एकाण्वत्ययकालश्च कालोल्पीयान् क्षणो मतः । बुद्धिश्च क्षणिका तस्मात्क्रमाद्वर्णान्प्रपद्यते ||४९६॥
एकस्याणोरत्यय आक्रमणं स कालः परिमाणं यस्य तादृशश्च कालोल्पीयान् लघुतमो भेत्तुमशक्यः क्षणो भवेत् । तावत्कालमात्रस्थाष्णुतया बुद्धिश्च क्षणिका तस्मात्क्षणिकत्वाद् बुद्धिः क्रमात्पुनर्धीर्व्यवहिता भूयसी भवन्ती वर्णान् प्रतिपद्यते तत्कथमविच्छिन्नवर्णग्रहः सङ्गतः । ( ४९६ )
१ श्रोत्रात् श्रवणे ।
२
२ व्यवधानेप्यव्यवहितभानात् । ३ निमेषमात्रेणाभिनिर्वृत्तिधर्मेति यावत् ।
४
अन्यस्य द्वित्रपरमाणुव्यतिक्रमादिभेदेन कालो भेत्तुं शक्यः ।
* अनेकक्षणाभिनिर्वृत्तिधर्म्माश्च वर्णाः ।
क्रमग्राहिकापि स्वग्राहियान्तरितेत्यविच्छिन्नग्रहः कुतः ।