________________
प्र० वा० वृतौ (२ परिच्छेदः)
षियोऽवयवग्राहिकायास्तस्मादेकायवग्रहणादूर्ध्वं पूर्वगृहीतस्य विषय ' स्यास्पितेर्हेतोर्न स्थानं स्थितिर्युक्ता । (४८८ )
२६४
स्थाने स्वयन्न नश्येत् सा पश्चादप्यविशेषतः । दोषोयं सकृदुत्पन्नाक्रमवर्णस्थितावपि ॥४८९॥
अथ विषयानवस्थानेपि स्वयमविनश्वरस्वभावतया बुद्धेः स्थाने वा स्वीक्रियमाणें पश्चादन्तावयवग्रहणानन्तरमप्यविनश्वरस्वभावतया' विशेषतो न नश्येत् । बुद्धेः सकृदुत्पन्नायाश्चिरावस्थाने यो दोषः सर्व्वदाऽविनाशप्रसङ्ग उक्तोऽयं संकृवुत्पन्नानामक्रमाणां वर्णानां क्रमग्राहिविज्ञानोत्पत्तिकालं यावदवस्थितावप्युच्यमानायां बोद्धव्यः । यदि सकृदुत्पन्ना अप्यविनश्वरस्वभावतया कञ्चित्कालमनुवर्तते तदा चिरमपि तत्स्वभावाप्रच्यवादनुवर्तेरन् । (४८९ )
किञ्च (1)
'सकृद्यत्नोद्भवाद् व्यर्थः स्याद्यनश्चोत्तरोत्तरः ।
सकृत् कृताद्यना' ताल्वादिव्यापारात् वर्णानामुत्पन्नत्वादुत्तरोत्तरो यत्नश्च व्यर्थः स्यात् ।
ग. न संयोगविभागद्वारेण शब्दाभिव्यक्तिः
योपि मन्यते (1) प्रयत्नप्रेरितेन वायुना स्तिमितस्य वायोराकाशंसंयुक्तस्य संयोगविभागकृता शब्दस्याभिव्यक्तिर्भवतीति तं प्रत्याह (1)
व्यक्तावप्येष वर्णानां दोषः समनुषज्यते ॥ ४९० ॥
" भागानामस्थितेरिति तुल्यकालम्विष (य) विषयित्वेऽयं येन दीर्घादिबुद्धिकाले न स्यात् ।
२ 'शब्दपरमाणून तद्देशविभागेनापरापरवेशसंयोगेन श्रोत्रपथमानयत्यतो वर्णाभिव्यक्तिरिति प्रत्यभिज्ञा च ।
* नैयायिकस्य ।
• मीमांसको वर्णस्फोटवावी न वर्णातिरिक्तं पदं वाक्यं बाचकमस्तीत्याह श्रोत्रप्राप्यकारि । वर्णाश्च नित्या देशकालनरान्तरेष्वेकाकारबुद्धिग्राह्यत्वात् यद्देशः शब्दस्तद्देशसन्निहितो वायुरदृष्टचोदितः ।