________________
प्र० वा० वृत्ती (२ परिच्छेदः)
स्यावेतद् (1) बुद्धिरपि बुद्धधन्तरसरूपोत्पन्ना प्रकाशमाना बुद्धेर्व्यञ्जिका मतेति चेत् । माह (1)
तथाभ्युपगमे बुद्धेः बुद्धौ बुद्धिः स्ववेदिका । सिद्धान्यथा तुल्यधर्मा विषयोपि धिया सह ॥४८० ॥
२.६०
बुद्धेः प्रकाश्यायाः बुद्धौ व्यञ्जिकायां तथा संक्रान्तसारूप्यप्रकाशद्वारेण वेदनाभ्युपगमे व्यञ्जिका बुद्धिः स्वसंवेदिका सिद्धा ( 1 ) धीसरूपाया बुद्धेः स्वप्रकाशत्वे पूर्व्वबुद्धिः प्रकाशिता स्यात् । अन्यथा' स्वप्रकाशत्वानम्युपगमे विषयोप्यप्रकाशस्वभावतया धिया सह तुल्यधर्मेति सोपि बुद्धेर्व्यञ्जकः स्यात् । सरूपयोर्घीविषययोरन्योन्यं व्यञ्जकता भवेत् । ( ४८० )
इति प्रकाशरूपा नः स्वयं धीः संप्रकाशते ।
अन्योस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते ॥ ४८१ ॥
इति तस्मान्नोऽस्माकं मते धीः स्वयमात्मना प्रकाशरूपोत्पन्ना सती प्रकाशते । स्वयेन प्रकाश्यते इति युक्तं । अन्यः पुनरम्योस्यां बुद्धी प्रकाशायां रूपसं' क्रान्त्या प्रकाशः सन् प्रकाशते । ततोऽर्थवेदनव्यवहारः । (४८१)
सादृश्येपि हि धीरन्या प्रकाश्या न तया मता ।
स्वयं प्रकाशमाना;
सादृश्ये सारूप्येपि सति तथा सरूपया वियाऽन्या पूव्विका धीर्न प्रकाश्या मता प्रकाशस्वभावस्य परेण प्रकाशायोगात् किन्तु स्वयं प्रकाशस्वभावतयां प्रकाशमाना प्रकाशत इत्यभ्युपेयं ।
घ. अर्थस्य ज्ञानरूपेण प्रकाशकता
एवन्तर्ह्यर्थस्याप्रकाशात्मनः कथं प्रकाशत इत्याह (1)
अर्थस्तद्रूपेण प्रकाशते ॥४८२॥
अर्थः सारूप्यसंक्रान्तेस्तद्रूपेण ज्ञानरूपेण प्रकाशते न तु साक्षात् ' स्वरूपेण ।
(४८२).
दृष्टान्तमाह (1)
यथा प्रदीपयोíपघटयोश्च तदाश्रयः । व्यङ्ग्म्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥४८३॥
' स्फटिकमणाविव जवा (कु) सुमं ।