________________
स्वसंवेदनचिन्ता
यस्मात्तस्य धियोsसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः कथं लिङ्गता । स्वप्रकाशत्वात् प्रत्यक्षां धियं तस्याश्च चेष्टाऽभिषाऽविर्यस्य सुखप्रसादवैवर्ण्यादे' स्तं दृष्ट्वा गृहीतव्याप्तिकस्यान्यसम्बन्धिचेष्टादिदर्शनात् । (४७६) परचित्तानुमानश्च न स्यादात्मन्यदर्शनात् ।
सबन्धस्य मनोबुद्धावर्थलिङ्गाप्रसिद्धितः ॥४७७||
परचित्तानुमानञ्चेष्टं न स्यात् । बुद्धेरात्मनि स्वसन्ततौ चेष्टादिभिः सह सम्बन्धस्यादर्शनात् । अपि च वासनामात्रबलभाविन्या मनोबुद्धौ विकल्पबुद्धी विषयभूतस्यार्थस्याभावात्' अर्थस्य लिङ्गस्यासिद्धितो बुद्धयन्तराल्लिङ्गादनुमानं स्यात् । (४७७)
प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध यन्तरेण वः । अप्रकाशात्मनोः साम्याद् व्यङ्गयव्यञ्जकता कुतः ॥४७८ ॥
२५९
कथम्वा बुद्धयन्तरेणाप्रत्यक्षेण बुद्धिः प्रकाशिता स्यात् । वो युष्माकं दर्शनं 51a यस्मादप्रकाशात्मनोल्लिङ्गलिङ्गिनोरसिद्धत्वेन साम्यात् व्यङ्गन्यव्यञ्जकता कुतः । यद्यप्रकाशात्मनोर्न व्यङ्ग्यव्यञ्जकता तदार्थज्ञानयोरपि कथं व्यङ्ग्यव्यञ्जकताभाव इति । (४७८)
विषयस्य कथं व्यक्तिः;
विषयस्य कथं व्यक्तिरिति (1)
उत्तरमाह (1)
प्रकाशे रूपसंक्रमात् । स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते ॥ ४७९ ॥
प्रकाशे स्वसम्विदिते ज्ञाने विषयस्य रूपसंक्रमात् सारूप्यसंभवात् ज्ञानेनार्थप्रकाशित इत्युच्यते । स च प्रकाशस्तद्रूपो विषयस्वरूपः स्वयमेवा' परोक्षप्रकाशात्मनोत्पन्नः प्रकाशते न त्वन्येन प्रकाश्यते । ( ४७९ )
૧ न विकल्पोऽर्थापेक्षः । ५ तत्रापि
8 पूर्व्वात्मरूपयोत्तरबुद्धघेति चेदाह । एकस्य विकल्पाविकल्पजननविरोघात् पूर्व्वधिया परधीबोधजनने स्मृतेरजननासु द्वितीयतया धिया स्वविषया(ब) बोधाद्यवधानं ।
★ अनुमानं न स्यात् । ज्ञानान्तरवेद्यपक्षेपि ।