________________
प्र० वा० वृत्ती (२ परिच्छेदः)
तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोपि नेक्ष्यते । रूपदर्शनतो जातो योन्यथा व्यस्तसम्भवः ॥ ४७२॥
तत्र तेषु मध्ये द्वयमिन्द्रियं ज्ञानञ्चात्यक्षमतीन्द्रियं इन्द्रियस्य ज्ञानान्यथानुपपत्त्या व्यवस्थापनात् । ज्ञानस्य त्वन्मतेऽप्रत्यक्षत्वात् । रूपादिषु पञ्चस्वर्थेषु एकोपि नेक्यते बुद्धेरप्रत्यक्षत्वात् । यो यावद् दृश्यमानोऽन्यथा ज्ञानमन्तरेण व्यस्तसम्भवः प्रतिक्षिप्तसत्त्वो विषयस्य रूपदर्शनतो बुद्धेर्जातोऽभ्युपगम्यते । (४७२) देवप्रतीतं तल्लिङ्गमित्यतिलौकिकम् । विद्यमानेपिलिङ्गे तान्तेन सार्द्धमपश्यतः ॥४७३ ॥
२५८
यमै बुद्धिनान्तरयीकतयाऽप्रतीतं तद् बुद्धेलिङ्गमित्यतिलौकिकं लो 'काति'क्रान्तं । किञ्चाभ्युपगम्योच्यते । विद्यमानेपि कस्मिश्चिल्लिङ्गे कदाचिद् बुद्धिं तां तेन लिङ्गेन सार्धमपश्यतोऽप्रतिपत्तेः । (४७३)
कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् । तत एवास्य लिङ्गात्प्राक प्रसिद्धेरुपवर्णने ||४७४॥
तस्माल्लिङ्गात् कथं बुद्धिप्रतीतिः । लिङ्गं ह्यन्वयरहितमवृष्टस्यार्थस्य न प्रकाशकं युक्तं (1) तत एव लिङ्गावस्य ज्ञानस्यान्वयसिद्ध्यर्थमात्मन्यनुमानात्प्राक् freeread वाभिधीयमाने (४७४)
दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थिति: ।
इत्यर्थस्य धियः सिद्धिः नार्थात्तस्याः कथञ्चन ॥ ४७५॥ तस्यान्वयसाधकस्याप्यनुमानस्य दृष्टान्तान्तरेणानुमानसाध्येन साध्यत्व' - मित्यनवस्थितिः स्यात् । तथा चैकस्यासिद्धौ सर्व्वस्यासिद्धिः प्रसज्यते ।
इति तस्मादर्थस्य धियः सकाशात् सिद्धिर्नार्थात् तस्या धियः कथं च न सिद्धिरिति न्याय्यं ( । ४७५)
तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः ।
प्रत्यक्षाश्च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ||४७६॥
.१ बालोपि सम्बद्धमेव लिङ्गमाह वनेरिव धूमः । 'आत्मनि बुद्धेरन्वयादृष्टेः ।
स्थादेतद् (1) येन कायस्पन्दाविनात्मनि बुद्धि साधयितुमिच्छति प्रमाता तत एक लिङ्गात् सपक्षे बुद्धिः सेत्स्यति तया सिद्धधात्मन्यनुमानमिति सपक्षेऽनुमानं विना दृष्टान्तबलेनेत्याह ।
४. अन्यथा सपक्षे यदि दृष्टान्तं विना सिद्धिरात्मन्यपि किन्न सिद्धिः ।