________________
स्वसंवेदनचिन्ता
स विशेषोऽर्थस्यान्येन पुरुषेण दृष्टावप्यस्तीति पुरुषान्तरस्यातद्व्यापृतेन्द्रियस्य' तस्मादर्थगतविशेषात् स्वघीग 'तिः स्यात् । ( ४६८)
अथ धर्मस्य साधारणत्वात् तस्य बुद्धयव्यभिचारात् । तस्मादनुमितिर्बुद्ध ेः स्वधर्मनिरपेक्षिणः । केवलान्नार्थधर्मात्कः; स्वधर्मः स्वधियो परः ॥४६९॥
तस्मात् केवलादर्थधर्मात् स्वधर्मनिरपेक्षिणोऽनुमातृपुरुषात्मभूतज्ञाननिरपेक्षाबुद्धेरनुमितिर्न सम्भवति सर्व्वस्यैव तस्मात् स्वबुद्ध्यनुमानप्रसङ्गात्। अथात्मधर्म एव स कश्चिद् बुद्धेर्गमक इति चेत् । आह (1) स्वस्यात्मनो धर्मः स्वबुद्धेरात्मसम्बन्धिन्या बुद्धेरपरोन्यः कः ( 1४६९ )
प्रत्यक्षाधिगतो हेतुः तुल्यकारणजन्मनः ।
तस्य भेदः कुतो बुद्ध ेर्व्यभिचार्यन्यजश्च सः ॥ ४७०॥
+
प्रत्यक्षाधिग' तो हेतुः स्यात् । न ह्यप्रतीतस्य हेतुता । न च बुद्धेः प्रत्यक्षतेष्यते तद्व्यतिरिक्तश्च कश्चिदात्मघर्मो न प्रत्यक्ष इति न स्याद् बुद्धधनुमानं (1) कात्मधर्मोसौ बुद्धया सममेककारणो वा स्यात् भिन्नकारणो वा (1) तत्र . बुद्धया सह तुल्यात् कारणाज्जन्म यस्य तस्यात्मधर्मस्य मुखेः सकाशात् कुतो भेदः । अभिन्नहेतुकत्वेऽभिन्नतैव युक्ता । अमान्यहेतुकोसौ तदान्यजश्च स व्यभिचारी स्यात् । एकसामग्रयधीनयोरेकदर्शनादपरानुमानमव्यभिचारि नान्यथा । ( ४७० )
उक्तमेवार्थं संगृह्णन्नाह (1)
रूपादीन् पञ्चविषयानिन्द्रियाण्युपलम्भनम् ।
मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते ॥ ४७१ ॥
२५७
रूपमादिर्येषां तान् शब्दगन्धरसस्पर्शान् पञ्चविषयान् पञ्चेन्द्रियाणि चक्षुः श्रोत्रादीनि उपलम्भनं ज्ञानं मुक्त्वा तस्या बुद्धेर्म कार्यमपरं समुपलभ्यते । इयतैव सर्व्वस्य संग्रहात्। (४७१)
' तमर्थमपश्यतोपि स्वबुद्धधनुमानं स्यान्न च युक्तं । पुरुषस्य ।
•
1 | बुद्धधसिद्धेर्न तादात्म्यं नापि तदुत्पत्तिरनुमेयधिया ।
" बुद्धेलिङ्गावनुमाने तल्लिङ्गेन कार्येण भाव्यमिति ।
३३
sob