________________
. . स्वसंवेदनचिन्ता
२५३ तस्य भोक्तृसुखविशेषस्याग्रहे (४५२) तत्समवामि सामान्यं न गृह्यत इति प्रोक्तं । "अतत्समानता व्यक्ती तेन नित्योपलम्भनमि" (२।२०)त्यादिना।
न च तद्वस्तु किश्चन । तस्मादावभासोसौ नान्यस्तस्या घियस्ततः ॥४५३॥ न च तत्सामान्यं किञ्चन 'वस्तु (1) यथा ह्युपगतस्यानुपलम्भबाधितत्वात्।
तस्मादनन्तरोक्ताद् युक्तिकलापात् अर्थावभासोसौ स्फुटं प्रकाशमानस्तस्याः परोक्षत्वेनेष्टाया धियो नान्यः किन्तु तद्रूप एव (1 ४५३) .. सिद्धे प्रत्यक्षमावात्मविदौ ; गृह्णाति तत्पुनः।
नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः ॥४५४॥ ततोऽर्थाभासज्ञानयोस्तादात्म्यात् प्रत्यक्षभावात्मविदो प्रत्यक्षत्वस्वसंवित्ती सिद्धे। ज्ञानस्यापरोक्षतया परनिरपेक्षप्रकाशत्वाच्च। . स्यादेतत् (1) स्वसन्तानतिनः सुखादीनध्यामालम्बते ततः प्रीतिपरितापादियोगाद् भोक्तृता (1)
अन्यस्य पुनस्तान् सुखादीन् नाध्यक्ष गृह्णाति किन्तु बुद्धिमानं ततः प्रीतिपरितापाद्यभावात् न भोक्तृत्त्वमिति चेत्। समायोरेकविषययोः स्वपरसन्तानवत्तिनोनियोरेष प्रत्यक्षाप्रत्यक्षलक्षणः कुतो भेदः। सुखस्वरूपविषयत्वात् द्वयमपि प्रत्यक्षमप्रत्यक्षम्वा स्यात् । (४५४)
अदृष्टैकार्थयोगादेः सम्विदो नियमो यदि
सर्वथान्यो न गृहीयात्सम्विद्भदोप्यपोदितः ॥४५५॥ अवृष्टाच्छुभाशुभादिलक्षणादेकार्यसम वायादेर्वा निमित्तात्स्वसन्तानवत्तिसुखग्राहिकायाः सम्बिदो नियमो' भोगरूपत्वावधारणं। तेनान्यस्य न भोक्तृतेति यदीष्यते तदाऽदृष्टेनैकार्थसमवायेन वा नियमितं सुखाद्यन्यो न गृहणीयादेवेत्यस्तु स्वरूपप्रतिभासे भोक्तृत्वस्याप्रतिषेधात्। न ह्यात्मसमवायितामात्रेण सुखादेर्भोगः किन्तपिलम्भेन । स च परस्याप्यस्तीति भोक्ता स्यात् । एकस्य विषयस्य सम्बि: दो ग्रहणभेदेपि व्यक्ताव्यक्ततया उदितो निराकृतः। ततः स्वरूपप्रतिभासस्यैकप्रकारत्वात्। (४५५)
'तवा व्यतिरेकाव्यतिरेकोभयरूपेणायोगः प्रागुक्त एव। 'अन्यस्य । १ अनुमा।
'अस्ववेदने। नान्यस्यैकात्मसमवायः। श्वरप्रसाद आदिना। परस्य स्वीकृते।