________________
२५२
प्र० वा० वृत्तौ ( २ परिच्छेदः)
49b दितरूपा जायन्ते बुद्धय' एव च ता वोघस्वभावत्वात् । ज्ञानेनाभिन्नहेतुकत्वा
(४४९)
प्रत्यक्षास्तद्विविक्कश्च नान्यत् किश्चिद् विभाव्यते । यत्तज्ज्ञानं परोप्येतान् मुञ्जीतान्येन विद्यदि ॥ ४५०॥
ततः प्रत्यक्षाः । न च सामान्येन वेदनमिति स्ववेदनतैव । न च तेभ्यः सुखादिभ्यो विविक्तं भिन्नमन्यत् किञ्चिद् बुद्धिस्वरूपं विभाव्यते उपलभ्यते यत्तत् प्रत्यक्षं ज्ञानं स्यात् । किञ्चान्येन ज्ञानेनान्यस्य ज्ञानस्य वित् वेदनं यदीष्यते तदा भोक्तृसन्तानवत्तन एतान् सुखादीन् परः प्रतिपत्ताऽलभ्यमानो भुञ्जीत सुखाद्युप• भोगवान्भवेत् भोक्तृपुरुषवत् । ( ४५० )
तज्जा तत्प्रतिभासा वा यदि धीर्वेत्ति नापरा । आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयम् ॥ ४५१ ॥
तस्मात्सुखादेर्जाता तत्प्रतिभासा सुखादिप्रतिभासा वा तान् सुखादीन् afe भोक्तृत्वेन नापरायाः काश्चिद् बुद्धिरिति यदीष्यते तदा भोक्तृसन्तानवर्त्तिनः सुखादीनालम्बमानस्यान्यस्य पुरुषान्तरज्ञानस्येवं तज्जत्वं तत्प्रतिभासि त्वं द्वयमालम्बनीयसुखाद्यपेक्षयाप्यवश्यमस्ति ततः सोपि भोक्ता स्यात् । ( ४५१ )
श्रथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी । सा धोर्निर्विषया प्राप्ता;
"च्च ।
अथान्यस्य धीर्भोक्तृसुखादेः सकाशा नोत्पद्यते नापि तत्प्रतिभासिनीष्यते तदा सा धीनिविषया प्राप्ता । ग्राह्यस्य पररूपस्याभावेपि प्रकाशमाना स्वप्रकाशैव
स्यात् ।
स्यादेतत् (1) भोक्तुः सुखं यद्यपि स्वरूपेण परबुद्धया न गृह्यते तत्सामान्यमात्रं तु गृह्यते इति भोक्तृत्वनिरालम्बनत्वयोरभाव इत्याह (1)
सामान्यं च तदग्रहे ॥४५२ ॥
न गृह्यत इति प्रोक्तं ;
| सुखादिजातं प्रतिभासे ।
* पूव्यं बुद्धिरूपाः स्थापिताः ।
५ पाश्चात्यज्ञानं तदालम्बते न स्ववेदनं तवनुमातृसन्तानेप्यस्ति ।
8
तन्नान्यस्य भोगः ।
'सुखाधमालम्बनत्वात् ।
उत्पत्तिसारूप्याभ्यामालम्बनब्यवस्थानात् ।