________________
स्वसंवेदनचिन्ता सारूप्यमपि नेच्छेद्यः तस्य नोमयदर्शनम।
तदार्थो ज्ञानमिति च ज्ञाते चेति गता कया॥४४६॥ सारूप्यमपि शब्दात् स्वसम्वेद'नं यो वादी नेच्छेत् न तस्योभयस्यार्थस्य ज्ञानस्य च वर्शनं संगच्छते। सारूप्याभावेऽर्थवेदनाऽयोगात्। स्ववेदनाभावे च न ज्ञानसम्वेदनं । अन्येन तद्ग्रहस्य निषिद्धत्वात् । यदा चैवं तदार्थो मानमिति भेदः । तेच शाते चेति कथापि गतेति कृत्स्नं जगदन्धमूकं भवेत् । प्रतीतिनिबन्धनत्वादस्य व्यवहारस्य । (४४६)
अथ स्वरूपं सा तर्हि स्वयमेव प्रकाशते।
यत्तस्यामप्रकाशायामर्थः स्यादप्रकाशितः ॥४४॥ अथ यदेतत्सिताद्यभिव्यक्तिरूपं स्फुटसम्वेदनमा भाति तद् बुद्धेः स्वरूपं (1) सा बुद्धिस्तहि स्वयमेवापरोक्षतया प्रकाशते यबस्मावस्यां बुद्धावप्रकाशायां परोक्षायामर्थोऽप्रकाशितः स्यात् । प्रकाशते चार्थ इति बुद्धिरप्यपरोक्षस्वभावेति स्वसम्वेदनसिंधिः। (४४७)
एतेनानात्मवित्पने सर्वार्थादर्शनेन ये। .
अप्रत्यक्षां धियं प्राहुस्तेपि निवर्णितोत्सराः॥४४८॥ . अनात्मवित्पने स्वसंवेदनाभावे' एतेनानन्तरमुपदर्शितेन सर्वस्याघस्यावर्शनेन दर्शनाभावप्रसङ्गेन ये जैमिनी या अप्रत्यक्षा षियमापत्तिगम्यामाहुः तेपि निष्णितोत्तरा दत्तोत्तरा बोद्धव्याः। तथा हर्षदर्शनान्यथानुपपत्या बुद्धिय॑वस्थापनीया। अर्थदर्शनमेव तु बुद्धिपरोक्षतायामसङ्गतमिति न तदन्यथानुपपद्यमानं बुद्धि कल्पयितुमलं। (४४८)
अपि च (1)
. आश्रयालम्बनाभ्यासभेदाद् भिन्नप्रवृत्तयः। . सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः॥४४९॥
माभयस्येन्द्रियस्यालम्बनस्य सुखादिवेदनीयस्याभ्यासस्य च यथा वृत्तस्य भेवाविशेषात् सुखदुःखाभिलाषादि भेदा भिन्नप्रवृत्तयो नानाकाराः सम्वि- .
'अनाकारवादी वैभाष्यादिः। साकारवाद्यपि नैयायिकाविर्यः सम्वेदनं नेच्छति।
शानान्तरेण स्वयमविदिते नान्यग्रहायोगात्। 'यत्सार्यावनिमुक्तं पूर्व अर्थो ज्ञानमिति ते। वेषप्रत्यत्नादिराविना।