________________
२५०
प्र० वा. वृत्तौ (२ परिच्छेदः) ___ यदा च बुद्धिरुपलभ्यते न तदाऽन्योऽतीतत्वात्। तस्माद् द्वयोरर्थज्ञानयोः संसृष्टयोरेकोपलम्भात् दृष्टौ सत्यां दृष्टमिदमिति निश्चयः ततोऽन्योपलब्धिः स्वोपलब्धिरूपैव स्यादेतत्। (४४२)
सरूपं दर्शनं यस्य दृश्यतेन्येन चेतसा।
दृष्टाख्येति न चेत् । यस्यार्थस्य सरूपं समानाकारं दर्शनं ज्ञानमन्येन चेतसा वृश्यते तत्रार्थे वृष्टाख्या दृष्टव्यवहार इति चेत्। अत्राह (1)
सिद्धं सारूप्येऽस्य स्ववेदनम् ॥४४३॥ अस्य ज्ञानस्यार्थेन सह सारूप्ये सिद्धे स्वसंवेदनं ज्ञानं सिद्धं। तथा ह्याकारस्तावत् ज्ञानकाले परिस्फुटं वेद्यमानो ज्ञानस्यात्मा चेत् ज्ञानमप्यर्थाकारवदपरोक्षमेव स्वभावत इति नान्यवेद्यं । (४४३)
अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् । अथ ज्ञानमात्मरूपं न वेत्ति पररूपस्य बाह्यरूपस्य वित्' कथं। न ह्याकारज्ञानवेदनमन्तरेणार्थवेदनमित्युक्तं। सारूप्यमात्रेणार्थवित्तिर्भविष्यतीति चेत् (1)
. सारूप्याद् वेदनाख्या च प्रागेव प्रतिवणिता ॥४४४॥ सारूप्यादनुभवात्मतारहिताद्वेदनाख्या वेदनव्यवहृतिश्च प्रागेव (२।४३०) "प्राप्तं संवेदनं सर्वसदृशानां परस्परमि"त्यनेन प्रतिवर्णिता प्रत्युक्ता। (४४४) किञ्च (1)
दृष्टयोरेव सारूप्यग्रहोर्थञ्च न दृष्टवान् । .. प्राक् कथं दर्शनेनास्य सारूप्यं सोध्यवस्यति ॥४४५॥ दृष्टयोरेव कयोश्चित् सारूप्यग्रहो दृष्टो यथा यमलकयोः। न च कश्चिद् द्रष्टा ज्ञानात् प्रागर्थ दृष्टवान् । तत्कथन्दर्शनेन सहास्यादृष्टस्यार्थस्य स द्रष्टा सारूप्यमध्यवस्यति निश्चिनोति । (४४५)
किञ्च (1)
'वेदकमप्रत्यक्षोपलम्भात्।
सारूप्यमेव नास्तीत्याह (1)
प्रथमज्ञाने।