SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २४९ 49a स्वसंवेदनचिन्ता पुंसः सिताबभिव्यक्तिरूपं संवेदन फुटम्। तत्किं सिताधभिव्यक्तः पररूपमयात्मनः ॥४३९॥ कस्माताऽनुभवेऽनुभूतनिश्चयस्य सत्तानिबन्धने सारूप्ये तदुत्पादे च सति नास्ति सत्तानिश्चयः। अर्थेप्यनुभूतनिबन्धने सारूप्यतदुत्पत्ती एव ते तज्ज्ञानेपि समाने। अपि च स्वसंवेदनानभ्युपगमे सिताविके 'दृश्यमाने, यदिवं' (४३८) सिताबभिव्यक्तिरूपमन्तः प्रकाशमानं संवेदनं स्फुटं पुंसः प्रतिपत्तुराभाति । तत् कि सिताबभिव्यक्तेः पररूप मथात्मभूतमिति विकल्पो, सतस्तत्त्वान्यत्वाव्यतिमात्। (४३९) पररूपेऽप्रकाशायर्या व्यको व्यक्त कथं सितम्। ज्ञानं व्यक्तिर्न सा व्यक्त्यव्यक्तमखिलं जगत् ॥४४०॥ पररूपेऽभ्युपगम्यमाने सम्वेदनं यत्प्रकाशते तन्न सितादिव्यक्तिरूपमित्यप्रकाशायां शुक्लादिव्यक्तौ सितं कथं व्यक्तं। शानं हि व्यक्तिर्न च सा व्यक्ता सितादिके दृश्यमाने इष्यत इत्यव्यक्तमखिलं जगत्प्राप्तं। सिताद्यभिव्यक्तिरेषितव्या। (४४०) तथा हि (1) ____ व्यक्तर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः।। अर्थव्यक्तेर्व्यक्तिरापद्यमाना न व्यक्ता स्यात्। अथ व्यक्तिरेव न सिध्येत् । तस्याः स्वप्रकाशत्वेऽर्थव्यक्तिरपि तथास्तु। अथार्थव्यक्तिर्व्यक्तेर्व्यक्त्यन्तराद् उत्तरकालभाविवेदनाद् व्यक्तिरेवं तस्याश्चान्यत इत्यनवस्था दुर्व्वारा। किञ्च (1) दृष्टया वाज्ञातसम्बन्धं विशिनष्टि तया कथं ॥४४॥ दृष्टघा घि याऽ सम्विदितया सहाज्ञातसम्बन्धमयं कथं विशिनष्टि प्रतिपत्ता दृष्टोयमिति। (४४१) कथमर्थो दृष्टव्याऽज्ञातसम्बन्ध इत्याह (1) यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम्। द्वयोः संसृष्टयोई ष्टौ स्याद् दृष्टमिति निश्चयः ॥४४२॥ यस्माद् द्वयोरर्थज्ञानयोर्मध्ये एकस्य गतौ दर्शन काले न द्वितीयस्य दर्शनमस्ति। तथा हि न पदार्थो दृश्यते न तदा बुद्धिरुपलभ्यते तदुपलम्भस्य भावित्वात्। विच्छिन्ने। तदैवावेदनात्। . विषयज्ञानस्यापि स्वयमव्यातेः। ३२ तत्समकालं, माह
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy