________________
प्र० वा० वृत्तौ (२ परिच्छेदः)
यदा सम्बेदनात्मकत्वमपरोक्षत्वं न सारूप्यनिबन्धनं तदा स्वत एव प्रकाशात्मतयोत्पत्तेस्तत्संवेदनात्मत्वं सिद्धं । ततश्चार्थेनास्य ज्ञानस्य किमुन्नीयते येन तस्य तद्वेदनमित्युच्यते (1) न हि ज्ञानस्य स्वप्रकाशेऽर्थापेक्षा । न च स्वस्माद् व्यतिरिक्तं तेन वेद्यते तत्कथमर्थवेदनमनेनेत्युच्यते ( । ४३४)
२४८
किञ्च (1)
नच सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः ।
न च केनचिदंशेन सर्व सर्वस्य वेदनम् ||४३५ ||
ज्ञानं सर्व्वात्मना वा एकदेशेन वाऽर्थस्य सरूपं यत्तद्ग्राहकं स्यात् । तत्र न तावत्सर्व्वेण जडत्वादिना साम्यमज्ञानत्वप्रसङ्गतः । न च जडयोर्ग्राह्यग्राहकभावः केनचिदंशेन वस्तुत्वनीलत्वादिना सर्व्वं ज्ञानं सर्व्वस्यार्थस्य संवेदनं स्यात् । सव्र्व्वं वा नीलज्ञानं सर्व्वस्य' नीलस्य वेदनं स्यात् । ( ४३५ )
यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः । तथानुभवरूपत्वात्तस्याप्यनुभवो भवेत् ॥४३६॥
यथा नीलादिरूपत्वात् ज्ञानं नीलादीनामनुभवो मतः तथा किमनुभवरूपत्वात् तस्यानुभवस्यार्थविषयस्यापि पूर्व्वकस्योत्तरं ज्ञानमनुभवो न भवेत् । (४३६)
नानुभूतोनुभव इत्यर्थवद् (हि) विनिश्चयः । तस्माददोष इति चेत् नार्थेप्यस्त्येष सर्वदा ॥४३७॥
नानुभवेऽनुभूतोऽनुभव इत्यर्थवदर्थ इव गृहीते विनिश्चयो भवति । तस्मादनुभवस्याप्यनुभवो ग्राह्यः कः स्यादित्ययमदोष इति चेत् । " न केवलमनुभवेऽर्थेऽप्येषो ऽनुभूतत्वनिश्चयः सर्व्वदा नास्ति । न हि धारावाहिन्यर्थज्ञानेऽर्थेषु प्रतिक्षणमनुभूतनिश्चयः । ततश्चार्थोपि नानुभूतः स्यात् । (४३७) कस्माद्वाऽनुभवे नास्ति सति सत्तानिबन्धने । अपि चेदं यदाभाति दृश्यमाने सितादिके || ४३८ ॥
१ भिन्नाकारस्य न वेदनमिति शङ्का स्यात् नीलाकारस्तु सर्व्वनीलानुकारीति सर्व्वग्रहः ।
२ ताद्रूप्यमभिव्यापित्वाद्विषाणित्वमिव गौर्नानुभवलक्षणः । ३ न चेष्यते । 8 तदुत्पत्तिसारूप्ययोः सतोरपीदं मयानुभूतमिति निश्चयोऽर्थानुभवः । नैवमनुभवविषयोऽनुभवः स्मृतिरेव तु स्यात् ।
परामर्शयोगी । पश्यत एवार्थं विषयान्तरव्याक्षेपान्नानुभूतनिश्चयः ।