________________
स्वसंवेदनचिन्ता
२४७
यदि सारूप्यवशाद्वेदनं तदा बुद्ध्यात्मनापि सारूप्याद्वेदनं स्यात् । तथा ग्राह्यग्राहकयोर्भेद एव प्राप्त इत्याह ( 1 )
स्वयं सोनुभवस्तस्या न स सारूप्यकारणः ।
तस्या बुद्धेः सोऽनुभवोऽपरोक्षत्वं स्वयं स्वरूपेण तथोत्पत्तेर्न सारूप्य कारणः सोऽनुभवो बुद्धेः। एवं तर्हि बाह्येप्यर्थे बुद्धिसारूप्यं निष्फलमित्याह (1) क्रियाकर्म्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥४३१ ॥
तदर्थसारूप्यं क्रियाया अर्थादनुभूतेः । कर्मणो बाह्यस्य व्यवस्थाया निबन्धनं लोके बहिरध्यवसायिनि स्यात् । (४३१)
न ह्यस्य सारूप्यमन्तरेणेयमस्य संवित्तिरिति शक्यं व्यवस्थापयितुं (1) स्वभावभूततद्रूपसंविदारोपविलवात् ।
नीलादेरनुभूताख्या नानुभूतेः परात्मनः ॥४३२॥
यस्या बुद्धेः स्वभावभूतस्य रूपस्य विषयाकारस्य संविदो बहिरर्थेष्वा रोपः स एव विप्लवो भ्रान्त्युपनीतत्वात् तस्मान्नीलादेर्व्वस्तुतोऽदृश्यमानस्याप्यनुभूतास्याऽनुभवव्यवहारो लोकस्य न पुनर्ज्ञानात्परात्मनोर्यस्य साक्षादनुभूतेरर्थानुभवव्यवहारः । (४३२)
धियो नीलादिरूपत्वे बाह्यर्थः किं प्रमाणकः ।
परमार्थतस्तु धियो नीलादिरूपत्वे स्वसम्वेद्ये तदाकारार्प्पको बाह्योऽर्थः स्वरूपेणादृश्यमानः किं प्रमाणकः । न ह्याकारद्वयं वेद्यते येनेको बाह्यस्यापरो ज्ञानस्येति स्यात् ।
बाह्य एवाकारवान् धीस्तु निराकारेति प्रत्यक्षसिद्धोऽर्थः स्यादित्याह (1) धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ॥४३३॥ धियोनीलादिरूपत्वे सोऽर्थाकाररहितोनु' भवस्तस्य नीलस्य ग्राहक इति कथं शक्यव्यवस्थापनः। (४३३)
यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम् ।
सिद्धं तत् स्वत एवास्य किमर्थेनोपनीयते ॥ ४३४ ॥ अनुभवमात्रात्मतया सर्व्वत्र ज्ञानेऽविशेषात् विशेषव्यवस्थान शक्तया ।
=
'यदि स्वानुभवात्मतयैव प्रकाशो नार्यानुभवात्मतया : तदा सम्बन्धाभावादर्थानुभवव्यपदेशो न युक्त इत्याह (i) * असतोपि ।
सारूप्यकृतः ।
૧