________________
प्र० वा. वृत्तौ (२ परिच्छेदः) ज्ञानं न वे' द्यते ग्राहककाले ग्राह्यस्यैवाभाव इति कथं बुद्धिवेदनं । स्वञ्च रूपं त्वन्मते सा बुद्धिर्न वेत्तीत्यनुभवो ऽखिलोऽर्थस्य ज्ञानस्य चोत्सन्नः स्यात् । ज्ञानप्रकाशो ह्यर्थप्रकाशः। स च स्वपरकालयोर्नास्तीति प्रकाशो न स्यात् सर्वस्य । (४२७) किञ्च (1)
बहिर्मुखश्च तज्ज्ञानं भात्यर्थप्रतिभासवत् ।
बुद्धश्च प्राहिका वित्तिन्नित्यमन्तर्मुखात्मनि ॥४२८॥ अस्यार्थस्य ग्राह्यस्य प्रतिभासवदाकारवत्तद् बाह्यग्राहकं ज्ञानं बहिर्मुखं बाह्यतया प्रतिभाति यथा नीलादिज्ञानं । बुद्धश्चात्मनि ग्राहिका वित्ति नित्यं सर्वकालमन्तर्मुखाऽबाह्यतया ग्राहकत्वेन प्रतिभाति। तदेतत् स्ववेदनताया मेवोपपन्नं । (४२८)- यदि तु बुद्धधन्तरग्राहिका बुद्धिः स्यात्तदा नीलादिवत् स्मर्यमाणाऽतीतस्वबुद्धि वच्च ग्राहकाकारत्वाद् बहिष्ट्वेनावभासेत तथा स्ववेदनताऽभावे (1) ..
यो यस्य विषयाभासस्तं वेत्ति न तदित्यपि । " प्राप्ता का संविदन्यास्ति ताद्रप्यादिति चेन्मतम् ॥४२९॥ . यो विषयस्याभास आकारो यस्य ज्ञानस्य तं स्वाकारार्पकं विषयं तदाकारवत् ज्ञानं न वेत्तीति प्राप्तं विषयस्वरूपस्यात्मनो वेदने हि विषयवेदनं तत्परोक्षतया अर्थोपि परोक्षः स्यात्। यतोऽर्थस्वरूपधी वेदनादन्या का संविदर्यस्यास्ति । ताप्याविषयसारूप्या दस्वसंवेदनादर्थस्य संविदिति चेन्मतं। (४२९) एवं सति (1)
प्राप्तं संवेदनं सर्वसदृशानां परस्परम् ।
बुद्धिः सरूपा तद्विच्चेत् नेदानी वित् सरूपिका ॥४३०॥ सर्वेषां यमलकादीनां सदृशानां परस्परं सम्वेदनं प्राप्तं न सदृश इत्येवानुभवः सल्पा तद्विवर्यस्य संवेदनञ्चेत् । इदानीमस्मिन्नभ्युपगमे सरूपिका विन्न भवति । सारूप्यं वेदनलक्षणं न भवति। किन्त्वनुभवरूपता। सत्यपि सारूप्ये यमलकादी'नामनुभवत्वात् । नापि सारूप्यवाहितानुभवमानं वेदनं, किन्तु स्वसंवेदनं सारूप्यं। (४३०) .
'तुल्यकालयोन ग्राह्यग्राहकत्वं स्वसम्वेदनं नाभ्युपेतं। प्रत्याविरुद्धत्वं स्ववेदनाभावस्याह एतेन। या विषयग्राहिका पूर्वा। नैयायिकः न स्वरूपबोषं मन्यते।