________________
स्वसंवेदनचिन्ता
भेदेनाननुभूतेस्मिन्नविभक्ते स्वगोचरैः एवमेतन्न खल्वेषमिति सा स्यान्न भेदिनी ॥४२४||
अस्मिन्नर्थसंवेदनेन भेदेनानुभूते स्व स्य गोचरैरर्थैः स्वाकारसमर्पणद्वारेणाविभक्ते परस्परतो भेदेन व्यवस्थापिते एतज्ज्ञानमेवं घटग्राहकं । न सत्येवं नैव घटग्राहकमिति । सा सम्वेदनस्मृतिर्भोदिनी विभागवती न स्यात् ज्ञानेन सह (1878)
न चानुभवमात्रेण कश्चिद् भेदो विवेचकः । विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥४२५॥
न चानुभवमात्रेणावान्तरभिन्नेन प्रतिज्ञानं कश्चित् भेदो विद्यमानोपि परस्परं विवेचको भेदव्यवस्थापनहेतुः । तथाविधाऽस्पष्टे भेवे सत्यपि धीः स्मृतिरूपाविवेकिनी न भवति । किन्त्वे कबोधाध्यवसायिनी प्रत्यभिज्ञैव स्याद्यमलादि बंधमलयोरर्थान्तरभेदसद्भावेप्येको दृश्यमानो नापरस्माद् भेदेनावसीयते किन्त्वेकत्वेनैव प्रत्यभिज्ञायते । (४२५ )
तस्मादर्थाकांरानुभवाकारतया बुद्धिर्द्विरूपैव ।
.
3
द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् ।
स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥४२६॥
ज्ञानानां द्वैरूप्यसाधनेनापि प्रायो बाहुल्येन स्वये वनं ज्ञानं सिद्धं । तथा ज्ञानस्य स्वरूपभूतस्याभासस्याकारस्य तदा द्विरूपज्ञानोत्पत्तिकाले संवेदनादनुभूतेरीक्षणात् (i४२६)
ख. अर्थानुभवाकारा
ज्ञानान्तरेण सरूपेण ज्ञानमर्थवद्वेद्यते इति चेत् । तदा (1) घियाsतद्रूपया ज्ञाने निरुद्धेऽनुभवः कथम् ।
स्वश्च रूपं न सा वेत्तीत्युत्सन्नोनुभवोऽखिलः ॥४२७॥ यातद्रूपयाऽग्राह्यज्ञानस्वरूपया निरुद्धे ग्राह्ये ज्ञाने कथमनुभवः । स्वकाले
१ स्वसत्ताकाले २ सारूप्यावन्य इन्द्रियाविभेदात् । सामग्रीभेदात् सुखादिभेदवद्विवेकेन स्मृतिः सेत्स्यतीत्यपि न । यतः सदार्था स्पष्टानुभवपूर्व्वा साकारा नैवं सुखादिरन्तः प्रीत्यादिरूपः ।, यथा परस्परविलक्षणेषु रूपादिष्वनुभूतेष्वन्योन्यविवेकेन । ग्राहिकया < तच्च वेद्यत इत्यर्थादात्मवेदनं न साक्षात्प्रायः शब्दाः । • अनुत्तरेण द्वैरूप्ये विषयसारूप्यमात्मभूतं ज्ञानस्य सिद्ध । .
४