________________
२३
... स्मृतिचिन्ता किञ्च (1) अनाकारेण ज्ञानेनार्थःक्षणि' कोऽक्षणिको वा व्यज्येत (1) तत्र (1)
ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वां। ..
जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः॥४१७॥ क्षणिकानां ज्ञानशब्बप्रदीपादीनां स्वविषयस्य प्रत्यक्षस्याप्रत्यक्षस्य वा ज्ञानस्य जनकत्वेन हे'तूनां पूर्वेषां ज्ञानकाले विनाशतः (४१७)
. व्यक्तिः कुतोऽसतां ज्ञानाद्; असतां ज्ञानात् कुतो व्यक्तिः। यदाऽर्थस्तदा न ज्ञानं यदा ज्ञानं तदा नार्थ इति कुतो व्य'ङ्गयव्यञ्जकभावस्तयोः। अथ शब्दादयो ज्ञानेन सह द्वितीयं स्वोपादेयक्षणं जनयन्ति स एव तेन ज्ञानेन व्यज्य ते नेतरदित्याह (1) .
अन्यस्यानुपकारिणः। व्यक्तौ व्यज्येत सवार्थस्तद्धतोनियमो यदि ॥४१८॥ 'स्वकारणादन्यस्य सहोत्पन्नस्यानुपकारिणो व्यक्तिविवक्षायां सोऽर्थः समानकालेन ज्ञानेन व्यज्यतामनुपकारकत्वाविशेषात् । तस्मात्सहोत्पादकात् हेतोरनुपकारकत्वविशेषेष्वपि सहोत्पन्न एवार्थो ज्ञानेन व्यज्यत इति नियमो यदि कल्प्यते (४१८)
नैषापि कल्पना ज्ञाने ज्ञानन्वर्थावभासतः।
तं व्यनक्तीति कथ्येत तदभावेपि तत्कृतम् ।।४१९॥ तदेषापि कल्पना न युक्ता ज्ञाने व्यञ्जकत्वस्य स होत्पन्नेन्द्रियादिव्यञ्जकत्वप्रसङ्गात्। अस्माकं मते तु साकारं तेनार्थेन कृतं ज्ञानमिति ज्ञानस्य काले • तस्यार्पस्याभावेप्यर्थावभासतोकारात्संवेद्यमानात् तमर्थ व्यनक्तीति कथ्यतेऽन्यस्यार्थव्यक्तिप्रकारस्यायोगात् (। ४१९) सहोत्पन्नस्यापि तर्हि स्वाकारज्ञानेन व्यक्तिः स्यादित्याह (1)
नाकारयति चान्योर्थोऽनुपकारात् सहोदितः।
व्यक्तोनाकारयज्ज्ञानं स्वाकारेण कथं भवेत् ॥४२०॥ कारणादन्यस्यान्यश्चार्थः सहोत्पन्नो ज्ञानं नाकारयति स्वाकारेण विशेषयति अनुपकारात्। न ह्यनुपकार (का) कारेण विशिष्यतेऽतिप्रसङ्गात्। यश्चार्थों ज्ञानं नाकारयति स कथं व्यक्तो भवेत् । (४२०)
'नित्यो दीपः कस्यचित् । शब्दो नित्यो वैयाकरणावेः बुद्धिनित्या सांस्यस्य। 'यदा स्वरूपानुकारि ज्ञानमव्यवहितं विकल्पज्ञानजनने। "ज्ञानादीनां। ४ नाकारणं विषयः। ज्ञानस्यैव विषयाकारः सिद्धः। 'इन्द्रियेणापि ज्ञानहेतुना यज्जनितमिन्द्रियन्तद्विषयः स्यात्। .