________________
२४२
प्र० वा० वृत्तौ (२ परिच्छेदः) मीक्ष्यते। तत्र दूरात्यासत्तिभेदेन व्यक्ताव्यक्तदर्शनेप्यदृष्टं धर्माधर्ममाश्रित्यापेक्ष्य रूपान्तरं व्यक्ताव्यक्तं जायत इति यद्युच्यते (१४१३)
अन्योन्यावरणात्तेषां स्यात्तेजोविहतिस्ततः।
तत्रैकमेव दृश्येत तस्यानावरणे सकृत् ॥४१४॥ तदा तेषां व्यक्ताव्यक्तानां रूपाणामन्योन्यस्यावरणात् कदाचित्कस्यचिदुपलम्भो भवतीति वक्तव्यं । तत एकोपलम्भकालेऽपरोपलम्भहेतोस्तेजसो विहतिरावृतिरिति च स्यात् । अन्यथा नावृत्ते तस्मिन्नपरस्याप्युपलब्धिः स्यादवैकल्यात्सामग्र्याः। तत्रापरोपलम्भहेतोरालोकस्यावरणे सति एकमेव व्यक्तमव्यक्तस्वरूपं दूरासन्नादिदेशस्थितैः प्रतिपत्तृभिः सर्वैर्दृश्येत । न त्वेकेन व्यक्तमितरेण चाव्यक्तमिति स्यात् । तस्यादृष्टोत्पन्नरूपस्य परस्परमनावरणे तेजसश्चानावरणे सकृत् (१४१४)
पश्येत् स्फुटास्फुट रूपमेकोऽदृष्टेन वारणे ।
अर्थानौँ न येन स्तस्तददृष्टं करोति किम् ॥४१५॥ 47b स्फुटास्फुटं रूपं पश्येदेकः प्रतिपत्ता। दृश्यरूपद्व यस्य दर्शनहेतोश्चालोक
स्यानावरणाददष्टेन द्वितीयस्य रूपस्य। वरणे व्यक्तमव्यक्तमेव वा रूपमेकं दश्यत इति चेत् । येन द्वितीयरूपावरणेन कृतेन पुंसोऽर्थानावदृष्टकायौं न स्तः सम्भवतस्तदावरणमदृष्टं कर्तृ किं कस्मात् करोति शुभाशुभलक्षणं ह्यदृष्टमर्थानर्थफलं (1) यत्पुनरनुभवस्वभावं तत्' दृष्टफलमेव भवति (१४१५) यस्मात् सर्वमनन्तरोक्तमसंगतं।
तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात्।
प्रतिभासभिदां धत्ते शेषाः कुमति दुन्नयाः ॥४१६॥ तस्मादर्थसंश्रया ज्जायमाना संवित् बुद्धिर्यथाहेतु वासनाप्रबोधहेत्वनतिक्रमण प्रतिभासस्याकारस्य व्यक्ताव्यक्तादेभिदां धत्ते विभर्तीति' न्याय्यं । तदितरे पुनरालोकभेदोपन्यासाद्याः शेषाः कुमतिदुर्नयाः परवादिनां कुमतीनां दुविमर्शाः (१४१६)
१ एकको दूरासन्नस्थः सर्व्वः। युगपत् स्फुटानि भवन्ति रूपाणि ।।
। सौमनस्योत्पादनेनानुग्राहकं धर्मी दर्शयति। दुःखोत्पादनेने (?नो) पपातकमावृणोति विपर्ययादधर्मः।
४ अभ्युपगमेप्यर्थस्य।
द्वरूप्यं ' अर्थव्यक्त्यसंभवन्दर्शयन् बुद्धरूप्यमाह।