________________
२३९
स्मृतिचिन्ता तथा याश्रित्य पितरं तद्रूपो हि सुतः पितुः । - भेदं केनचिदंशेन कुतश्चिदेवलम्बते ॥४०२॥
तथा हि पितरमाश्रित्य तब्रूपः पित्राकारोपि सुत उत्पन्नः के मचिदंशेनाकारेण कुतश्चित् कादेर्हेतोः पितुः शकासात् (?सकाशात्) भेदमन्यादृशत्वमवलम्बते पितापुत्रयोः सर्वथा साम्याभावात् । (४०२) c. दैरूप्यसिद्धावुपपत्त्यन्तरमाह (1)
मयूरचन्द्रकाकारं नीललोहितभास्वरम् ।
सम्पश्यन्ति प्रदीपादेम्मेण्डलं मन्दचक्षुषः ॥४०३॥ मयूरचन्द्रकाकारमन्तरान्तरा नीललोहितभास्वरं दीप्तं प्रदीपादेर्मण्डलमविद्य-- मानमेव मन्दचक्षुषः' संपश्यन्ति। दीपस्य तादृशस्वरूपाभावात्। ज्ञानस्यानुभवात्मनः स आकार इति द्वैरूप्यसिद्धिः। (४०३) · अथ तादृशं वस्त्वेवोत्पन्नं दृश्यत इति न ज्ञानाकार इत्याह (1)
तस्य तद्बाह्यरूपत्वे का प्रसन्भेक्षणेऽक्षमा। भूतं पश्यश्च तदर्शी कथञ्चोपहतेन्द्रियः ॥४०४॥ शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम् ।
पश्यतोऽन्याक्षदृश्येर्थे तव्यक्तं कथं पुनः ॥४०५॥ तस्य मण्डलस्य तबाह्यरूपत्वेऽभ्युपगम्यमाने प्रसन्नेक्षणे द्रष्टरि काममा वेषो येनास्मै नात्मानमुपदर्शयेत् । यद्वस्तूपहतेन्द्रियेण दृश्यते । तदनुपहतेन्द्रियेण सुतरां दृश्यते । भूतं सत्यं च पश्यन् तदर्शी मण्डलदर्शी कथमुपहतेन्द्रियैः (४०४) अपरैरदृश्यं मण्डलं पश्यतोऽस्य मन्दचक्षुष्ट्वेन नष्टस्य तिमिरेण व्यक्तं चक्षुः शोषितमित्युपहसति । किन्तु तैमिरिकस्यातीन्द्रियार्थदर्शनक्षमं तच्चक्षुरन्यस्यातैमिरिकस्यासदृश्येऽर्थे प्रदीपे कथं पुनरव्यक्तमस्फुटं यदतीन्द्रियं पश्यति तत् सव्वं दृश्यं सुतरां पश्यति । (४०५) किञ्च (1)
आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते । शक्तिहेतुस्ततो नान्योऽहेतुश्च विषयः कथम् ॥४०६॥
?चत्तगताः।
स्पेण।
'विप्लुतामः।