________________
२३८
प्र० वा० वृत्ती (२ परिच्छेदः)
अस्त्येष विदुषां वादो बाह्यन्त्वाश्रित्य वर्ण्यते । द्वैरूप्यं सहसंवित्तिनियमात्तच्च सिध्यति ॥ ३९८ ॥
अस्त्येष सर्व्वव्यवस्थासु विज्ञप्तिमात्रताप्रतिपादको विदुषां न्यायदर्शिनां योगाचा राणां वादः । सौत्रान्ति के रिष्टं बाह्यमर्थमाश्रित्य ज्ञानस्य द्वैरूप्यमाचार्येण वर्ण्यते । तच्च द्वैरूप्यं सहसम्वेदननियमात् सहोपलम्भनियमात् सिध्यति । (३९८) भेदेपि सति तदभावात् ।
b. द्वैरूप्यसिद्धावुपपत्त्यन्तरं वक्तुमाह (1)
ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् । प्रतिभासभिदामर्थे विभ्रदेकत्र दृश्यते ॥ ३९९ ॥
इन्द्रियस्य भेदेन प्रसादोपघातादिना विशेषेण पुरुषार्थे ज्ञानं पटुमन्दाविलादिकां प्रतिभासभां विभ्रत् दधत् दृश्यते । ( ३९९ )
अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः ।
सर्व तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता ||४००||
तस्य ज्ञानस्यार्थाच्चेनास्ति तदाभताऽर्थाकारता तदार्थस्याभिन्नरूप 'त्वात् । तदर्थं तद्विषयं सव्र्व्वं मनोवेदनमेकरूपम्भवेत् । न पटुमन्दाविलतादिभिन्नं ज्ञानस्य स्वगताकारभेदानभ्युपगमात् । अर्थस्यैकरूपत्वात् प्रतिभास *भेदविरोधा'त् । अस्ति 46b चायं तस्मादर्थरूपताऽनुभवरूपता चेति द्वैरूप्यसिद्धि: । ( ४०० )
नन्वर्थंरूपतायामप्यर्थस्यैकरूपत्वात् तत्सरूपं ज्ञानमेकाकारं स्यात् । न प्रसन्नाविलादिरूपमित्याह (1)
४
अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्व्वतः ।
तस्य केनचिदंशेन परतोपि भिदा भवेत् ॥ ४०९ ॥
अर्थस्य सरूपस्याश्रयेणोद्भवतस्तस्य ज्ञानस्य तद्रूपमर्थाकारमनुकुर्व्वतः केनचिवंशेनाकारेण पटुमन्दत्वादिना परतो वासनादेरपि कारणाद् भिदा भवेत् । (४०१ )
निराकारत्वात् ।
२
एकरूप एवार्थः साकारः ।
एकस्मिन्नर्थे नानाकारः ।
यस्मिन् सति यत्स्यात् येन विना न भवति तदान्येषु सत्स्वपि तत्तस्य कारणं ।