________________
स्मृतिचिन्ता
नन्वस्ति विरोधः । तथा हि (1)
अनभिजन्यो धूमः स्यात् तत्कार्यात् कारणेऽगतिः । न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥ ३९५ ॥ धूमज्ञानादग्निज्ञानोत्पादेऽनग्निजन्यो धूमः स्यात् । अग्निप्रतिभासस्य प्रागविधमानत्वात् विपर्ययः स्यात् । तत् तस्मात्कार्यात् कारने गतिर्न स्यात् । अग्निज्ञानं प्रति धूमज्ञानस्य कारणतायां वा कारणात् कार्य एकान्त सोऽसंदिग्धा कुतो गतिरिति (३९५)
अत्राह (1)
तत्रापि धूमाभासा श्रीः प्रबोधपटुवासमाम् । गमयेदग्निनिर्भासान्धियमेव न पावकम् ॥३९६॥
२३७
तत्र धूमादन्त्यनुमानेपि धूमाभासा धीरग्निवासनाप्रतिबद्धा एकसामग्रचतयाऽग्निनिर्भासान्धियमेव धूमज्ञानादेव प्रबोधेन पटुजननोन्मुखा वासना शक्तिर्यस्यास्ताङ्गमयेत् । न पावकं बाह्यरूपं सर्व्वदाऽदर्शनात् । ( ३९६ )
अग्निंवासनाधूमज्ञानयोर्हेतुफलतामाख्यातुमाह (1)
तद्योग्य वासनागर्भ एव धूमावभासिनीम् ।
व्यनक्ति चित्तसन्तानो धियं धूमोमितस्ततः ॥३९७॥
तस्याग्निप्रतिभासस्य योग्या जनमसमर्था वासनागर्भे स्वभावभूता यस्य चित्तसन्तानस्य स चित्तंसन्तानो धूमावभासिनीं धियं व्यनक्ति उत्पादयति (1) ततोऽग्नित एव धूमो भवतीति न कार्यकारणताविपर्ययः । न च कारणात्कार्यानुमानमग्निवासनाप्रभवत्वात् - धूमाग्निज्ञानयोः । धूमज्ञानात् प्रबुद्धाग्निवासनाद्वारेणाग्निज्ञानानुमितिरेकसामग्रयधीना । ( ३९७ )
ख. ज्ञानद्वयरूपतासिद्धि
a. एवन्तर्हि विज्ञाननय एव सर्व्वव्यवस्था' नमविरोधात् कथमाचार्येण बहिरर्थापेक्षया ज्ञानद्विरूपतोक्तेत्याह (1)
* नावश्यं कारणानि कार्यवन्ति स्युः ।
१ अनुमातव्ये । येन लिङ्गबोधकाले घूमभासज्ञानस्यानग्निमन्वत्थं स्वात् ।
" बाह्यवादिनोपि तुल्यमेतद्येन वह्निना घूमो जनितः कथं तदनुमानं यश्च भावी तेनासौ न जनित इति भाव्यनुनीयते ।