________________
स्मृतिचिन्ता
२३५
तस्मात्स्थितमेतत् ज्ञानानां विषयसारूप्यानुभवरूपत्वाभ्यां द्वयाकारत्वं । ततश्च सहोपलम्भनियमोऽर्थविज्ञानयोः । अर्थाकारताया अर्थोपलम्भात् । अनुभवरूपतायाः स्वभे (? वे) दनत्वात् । (३८७ )
तथा च (1)
सकृत् सम्वेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥३८८||
धिया सह नियमेन सकृत्संवेद्यमानस्य विषयस्य ततो धियोऽन्यत्वं भेदः केनाकारेण प्रकारेण सिध्यति । भिन्नयोः सहोपलम्भनियमायोगात् । (३८८)
यदि विषयज्ञानयोरभेदस्तदा ग्राह्यग्राहकतया भेदः कथं प्रतिभातीत्याह (1) भेदश्व भ्रान्तविज्ञानैदृ श्येतेन्दाविवाद्वये ।
भेदश्च वासनावशात् भ्रान्तमुपप्लुताकारं ज्ञानं येषां तैरवग्दर्शिभिदृश्येत । इन्दाविवाद्वये एकरूपे द्वैतं तिमिरोपहतबुद्धिभिः ।
भेदेपि कस्मान्न सहोपलम्भनियम इत्याह (1)
संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः ॥ ३८९ ॥ भिन्नयोर्नीलपीतयोः संवित्तिनियमो नास्ति । ततो यत्रास्ति तत्राभेदएव ( । ३८९) तथा हि ( 1 )
ך'
नार्थोऽसम्वेदनः कश्चिदनर्थम्वापि वेदनम् । दृष्टं सम्वेद्यमानन्तत् तयोर्नास्ति विवेकिता ॥ ३९०॥ तस्मादर्थस्य दुर्वारं ज्ञान कालावभासिनः । ज्ञानादव्यतिरेकित्वं;
नार्थोनुभवमन्तरेण कश्चिद् दृष्टः ( 1 ) वेदनञ्चार्थाकारम्विना न दृष्टं सम्वेद्यमानं । तत्स्मात्तयोरर्थतदुपलम्भयोन।स्ति विवेदिता । ( ३९० ) तस्मात् ज्ञानकालावभासिनोर्थस्य । अर्थज्ञानयोरपि सहसंवित्तिज्ञानादव्यतिरेकित्वमभिन्नत्वं दुर्व्वारमित्युपसंहारः ।
स्यादेतत् ।
हेतुभेदानुमा भवेत् ॥३९१॥
' विषयस्याभावात्तदभेदो न साध्यः किन्तु बुद्धिरेव तदात्मिका साध्यते । २ तादात्म्यप्रतिबन्ध उक्तः ।