________________
२३४
प्र. वा० वृत्तौ (२ परिच्छेदः) यदि चार्थकार्य भ्रान्त्या स्मर्यते तदा सर्वेषामपि कार्याणां कारणैः सह तथा प्रहः कारणात्मत्वेन ग्रहणं स्यात्। ततश्च घटकुलालादिकार्य कुलालादेब्बिवेकेन भेदेन न स्मर्यंत। (३८३) . अथास्त्येव कश्चिदालोकादिभ्यो विषयस्य ज्ञानात्मन्यारोपणीयो विशेषस्ततस्तदाकारावग्रहेण स्मर्यते। नान्यथेत्याह (1)
यस्मादतिशयाज्ज्ञानमर्थसंसर्गभाजनम् ।
सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु ॥३८४॥ यस्मादारोपितादतिशयात् ज्ञानमर्थसंसर्गस्यार्थसंश्लेषस्य भाजनं पात्रं भवति। अर्थेन सारूप्यावन्यत् किन्तत् स्यात् । सारूप्यादन्यस्यातिशयस्योपलक्षणत्वायो'गात्। यमलादिषु सारूप्याद् भ्रान्त्या तथार्थनिश्चयस्य दृष्टेश्च । (३८४) किञ्च।
आद्यानुभयरूपत्वे ह्यकरूपं व्यवस्थितम् । द्वितीयं व्यतिरिच्येत न परामर्शचेतसा ॥३८५।। आवस्यार्थज्ञानस्यानुभयरूपत्वेऽर्थाकाररहितत्वात् अनुभवकरूपत्वे तदालम्बकं द्वितीयं ज्ञानमेकस्मिन् रूपेऽनुभवात्मनि व्यवस्थितं परामर्शचेतसा ज्ञानज्ञानालम्बकेन तृतीयज्ञानेन न व्यतिरिच्यत। न विषयज्ञानग्राहकतया भेदेन गृह्येत। स्वाभासमात्रत्वेन सर्वस्याविशेषात् । (३८५)
अर्थसंकलनाश्लेषा धीद्वितीयावलम्बते । .. नीलादिरूपेण धियं भासमानां पुरस्ततः॥३८६॥
यतो बुद्धरनाकारत्वे दोषोऽयं ततः पुरोऽर्थस्य धियं नीलाविरूपेण भासमानां द्वितीया धीरर्थसंकलनस्यार्थाकारावग्रहस्याश्लेषः संसग्! यस्याः सा तामवलम्बते। (३८६)
अन्यथा ह्याद्यमेवैकं संयोज्यतार्थसम्भवात् ।
ज्ञानं नादृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् ॥३८७॥ अन्यथा यद्यनाकारं ज्ञानमर्थकार्यतया भ्रान्त्यार्थाकारं स्मर्यत इत्याश्रीयते तदाद्यमेवैकमर्थज्ञानं स्मृत्याऽर्थेन संयोज्येत। अर्थात्संभवात् तस्य। न उत्तरोतरं ज्ञानं पूर्वस्य ज्ञानस्यार्थनाकारणभूतेनादृष्टसम्बन्ध संयोज्येत ।
इत्यर्याकारसमावेशितज्ञानम् ।
विषयज्ञानतज्ज्ञानविशेषात शिल्पतेति व्याख्याय स्वयमुपपत्तिमाह (1) अशिल्पं विषयाभासाभावात्। न विषयाकारोपधानात् ।