________________
२३२ . प्र० वा. वृत्तौ (२ परिच्छेदः) निषेधुं नित्यमात्मन्यस्य विकल्प्यस्यार्थस्य सम्बन्धे वा' स्वीक्रियमाणे यदा स्वयमनुचिन्तयितुं पर स्मै कथ्यते तदा कथञ्चित् परोन प्रतीयात् प्रत्येति च कवितं (३७६)
एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते ।
एकार्थाभिनिवेशात्मा प्रवक्तश्रोतचेतसोः ॥३७७॥ प्रतीत्यर्थमेकेनकेन वक्त्रा श्रोत्रा च भिन्नस्य भिन्नस्य अर्थस्याभिसम्बन्धेत्रापि स्वीक्रिमाणे प्रवक्तृश्रोतृचेतसोः प्रतिसन्धिरेकार्थाभिनिवे शात् यदेवानेन । कथितं तदेव मया प्रतीतं यदेव मया कथित तदेवानेन ज्ञातमित्यभिन्नार्थाध्यवसायरूपो न युज्यते। (३७७)
तदेकव्यवहारश्चेत् सादृश्यादतदाभयोः।
भिन्नात्मार्थः कथं ग्राह्यस्तदा स्याद्धीरनर्थिका ॥३७८॥ का वक्तृश्रोतृसम्बन्धिनोस्तयोरर्थयोरेकव्यवहार एकत्वावसायः सादृश्याच्चेत् । तदुभयदर्शने सादृश्यं न चात्र दर्शनं। भवतु वा तथापि अतदाभयोभिन्नात्मसम्बन्धार्थाप्रतिभासिनोवक्तृश्रोतृचेतसोभिनात्माऽर्थः कयं ग्राह्यः। यदा चार्थाभेदो नास्ति तवाभिन्नार्थाध्यवसायिनी वीर्वक्तृश्रोत्रोरनर्षिका स्यात्। यथार्थ बुद्धरभावात् । यथाबुद्धि चार्थाभावात्। (३७८). भवतु तावदेवं स्मृतिविषयाकाराऽनुभवज्ञानं त्वनाकृति स्यादित्या ह (1)
तश्चानुभवविज्ञानेनोभयांशावलंबिना।
एकाकारविशेषेण तज्ज्ञानेनानुबध्यते ॥३७९॥ तच्चानुभयविषयेण स्मरणेनानुबध्यतेऽनुगम्यते स्मर्यते इति यावत्।
कीदशेनोभयांशावलम्बिना ज्ञेयप्राचीनज्ञानगतविषयाकारानुभवरूपधर्मद्वयविषयेण कथमनुबध्यत इत्याह (1)
• एकस्मादविवादसिद्धादनुभवाकाराद्विशेषो विषयाकारस्तेन स्मरणज्ञानेन हि विज्ञानमाकारानुभवाकारविशिष्टमेव स्मर्यते ततस्तादृशमेव तत् । (३७९)
'प्राप्यकारित्वाकार्यस्य। किञ्चिन्तयसीति पृष्ट। सर्वः पुरुषः प्रत्यात्मकंकसंगतः परतः श्रवणेपि स्वार्थाबापी। यमलकयोरिव। किं चिन्तयसीति पृष्टे। 'भेदेनाभानात् । •विषयमाने ततानाधाचष्टेनुभवविज्ञानम्। प्राचीन । विषयाकारता नेष्टा परेणेति विरूपता साध्यते । शरीरान्तर्वतिनो यथा।