________________
स्मृतिचिन्ता
नामादिकं विषयत्वेन निषिद्धं प्राक् (२।११) “नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनी" ( २।११) त्यादिना । किञ्चार्थवतां सविषयाणां चक्षुविज्ञानादीनामयं मोऽर्थसामर्थ्येन विनोत्पाद इति नास्ति । मनोविज्ञानानां त्वर्थसन्निधानानपेक्षाणामिच्छामात्रानुरोधित्वात् जनिकार्य शक्तिर्न सिध्यति । न चाहेतुरर्थी ग्राह्योऽतिप्रसङ्गात् । (३७३)
(२) स्मृतिचिन्ता
भवत्वतीतार्थालम्बनं विज्ञानं विषयाकारमनुभवस्तु मा भूदित्याह (1) स्मृतिश्चेग्विधं ज्ञानं तस्याश्वानुभवाद्भवः ।
स चार्थाकाररहितः सेदानीं तद्वती कथम् ॥३७४॥
ईबृग्विषमतीत विकल्पनात्मकं ज्ञानञ्च स्मृतिः । तस्याश्वानुभवाद् भव उत्पाद: । न ह्यनुर्भवमन्तरेण स्मृतिः । स चानुभवो भवन्मतेऽर्था' काररहितः । इदानीमस्मिन्नभ्युपगमे सा स्मृतिस्तद्वत्यर्थाकारवती कथमस्तु । यद्यनुभवारूढो नार्थाकारः कथमसौ विदितः । अविदितस्य का स्मृतिः । ( ३७४ )
क. नार्थात् स्मृतिः अर्थात्स्मृतिरुत्पद्यत इति चेत् । आह (1)
२३१
नार्थाद् भावस्तदाभावात् स्यात्तथानुभवेपि सः । आकारः स च नार्थस्य स्पष्टाकारविवेकतः ॥ ३७५ ॥
नार्थाद् भावस्तस्यास्तदा स्मृतिकालेऽभावादतीतार्थस्य । यथा चार्थादुत्पद्यमानायाः स्मृतेरर्थाकारो भवति । तथानुभवेप्यर्थादुत्पद्यमाने सोऽर्थाकारः स्यात् (i) अपि च स्मृत्यारूढः सोऽस्पष्टश्चाकारो नार्थस्यानुभवारूढात् स्पष्टादर्थाकाराद् विवेकतो भेदात्। (३७५)
व्यतिरिक्तं तदाकारं प्रतीयादपरस्तथा ।
नित्यमात्मनि सम्बन्धे प्रतीयात् कथितञ्च न ॥ ३७६ ॥
यदि च बुद्धिव्यतिरिक्तोऽर्थ एव मनोविज्ञानग्राह्यस्तवा बुद्धेर्व्यतिरिक्तमेकेन विकल्प्यमानन्तदाकारमपरोपि योग्यदेशस्थः प्रमा न प्रतीयात् । परोपलभ्यतां
१ निराकारवादित्वात् ।
* सिद्धमतः साकारं स्मरणं ।
* अभ्युपगम्य निराकारवादिनि प्रसङ्गमाह । * युक्तो (?) स्मृतौ नीलाद्यः ।