________________
२३० . प्र० वा. वृत्तौ (२ परिच्छेदः) कारापकत्वं विषयलक्षणमवस्थितं। तस्मात्तस्याकारापकत्वस्याभावे तद्विषयत्वमिन्द्रियादिषु न भवेत् । (३७०) किञ्च (1)
अनकारशका स्यादप्यर्थवति चेतसि ।
अतीतार्थप्रहे सिद्ध द्विरूपत्वात्मवेदने ॥३७१॥ अर्थवति चेत' स्यनाकारता अर्थाकाररहितता शङ्का स्यावपि दृश्यमानस्याकारस्यार्थत्वेनैव सम्भाव्यमानत्वात् । अतीतस्यार्थस्य ग्रहे विकल्पात्मके त्वर्थस्या45a मा 'वात् । अर्थाभासतया च द्विरूपत्वं तथा चापरोक्षत्वादात्मसंवेदनं चेति द्वे अप्यस्तु
सिद्धे। न ह्यसन्नेवार्थो दृश्यते । ततोऽर्याकारता सा ज्ञानस्यैव' तथार्थेन च परोक्षत्वाभावात् स्वाभासञ्च तत्। न चान्येन ज्ञानेन तद् वेद्यते । वेद्यवेदकभावस्य निषिद्धत्वात्। अतः स्ववेदनमेव तत् । (३७१)
ब. सामान्यस्य नित्यानित्यत्वप्रतिषेधः स्यादेतद् (1) अतीता व्यक्तिरसत्त्वान्न विकल्पविषयो जातिस्तु सत्त्वात् स्यादित्याह (1) .
नीलाद्याभासमेदित्वामार्थो जातिरतद्वती।
सा वा नित्या न जातिः स्यानित्या वा जनिका कथम् ॥३७२।। अतीतविकल्पस्य नीलाथाभावभेदित्वात् वर्णसंस्थानाद्याकारविशेषवत्त्वात् न जातिरतद्वती वर्णाद्याकाररहितार्थेविषयः । किञ्च (1) जातिविषयीभवन्ती अनित्या वा भवेत् नित्या वा। सा चानित्या जातिर्न स्यात् नि'त्यलक्षणत्वातस्याः नित्या वा बुद्धे निका कथं स्यात् । (३७२)
नित्यस्य क्रमयोगपद्याभ्यां विरहात्। ना मनिमित्ते विप्रयुक्तः संस्कारो विषयश्चेदित्याह (1)
नामादिकं निषिद्धं प्राङ्नायमर्थवतां क्रमः। इच्छामात्रानुरोधित्वादर्थशक्तिर्न सिध्यति ॥३७३॥
'साकारत्वात्ततोन्यं भाविकमयं कल्पयतः किमयं ज्ञानीय एवार्थो बहिर्दा येन ज्ञानमनर्यकं स्यात्। २ सिद्धा हालस्यैव धानासता।
बुद्धिरूपत्वमात्मवनञ्च ते 'सिद्ध। संज्ञा नाम । अर्थसरूपनिमित्तं ।