________________
अर्थसंवेदनचिन्ता
२२९ ननु रागादिष्टात्मसंवेदनं फलभूतं मानयुक्तमिह तु ग्राहकाकारो योग्यतालक्षणं प्रमाणमुच्यत इति व्या हतमिति शङ्कायामुत्तरं (1)
ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि ।
सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ॥३६७॥ या ग्राहकाकारसंख्याता परिच्छेदात्मता सात्मनि संवेदने योग्यता चेति तस्माद्रागादिषु स्वात्मसंवेदनं प्रमाणं प्रोक्तं । न हि स्ववेदनं फलभूतमिह विवक्षितं किन्तु योग्यता। तस्मादभिन्नार्थतव। (३६७)
ननु स्वाभासं तावदस्तु ज्ञानं परिच्छेदस्वभावत्वात्। विषयाभासं तु कथं यथा विषयं कारणं तथा चक्षुरादिरपीति तदाकारतापि स्यादित्याह (1)
सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद् ।
तदन्यस्यापि हेतुत्वे कथञ्चिद् विषयाकृति ॥३६८॥ सर्वमेव हि ज्ञानं विषयेभ्यः समुद्भवदुत्पद्यमानं तेभ्यो विषयेभ्योऽन्यस्येन्द्रियादेपि हेतुत्वे कथञ्चित् स्वकारणायातविषयगतशक्ति भेदाद्विषयाकृति भवति नेन्द्रियाद्याकारं । (३६८)
यथैवाहारकालादेहेतुत्वेऽपत्यजन्मनि ।
पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥३६९।। यथैवापत्यजन्मनि पित्रोर्मातापित्रोराहारकालादे श्च हेतुत्वेपि तदेकस्य .... पित्रोर्मध्ये एकस्य पितुर्मातुकिारमपत्यं धत्तेऽन्यस्याहारकालादेश्च कस्यचित् (न)। (३६९)
तद्धेतुत्वेन तुल्येपि तदन्यैर्विषये मतम् ।
विषयत्वं तदंशेन तदभावे न तद् भवेत् ॥३७०॥ यत एवं तत् तस्मात् ततो विषयादन्यैरिन्द्रियादिभिर्हेतुत्वेन तुल्ये सदृशेपि विषये रूपादौ विषयत्वं ग्राह्यत्वं तेन स्वाकारार्पकत्वेनांशेन विशेषणं मतं । यस्मादा
'दिग्नागेनोक्तं रागादिषु च स्वसम्वेवानमिमियानपेशत्वात् मानसं प्रत्यक्ष पुनः प्राहकाकारसम्वित्ती प्रमाणफलते इति प्राहकाकारः प्रमाणं। वात्तिके तु . योग्यतोक्ता। आह एकाभिप्रायतां।
ज्ञानं तज्ज्ञानविशेषात्तु द्विरूपता ज्ञानस्य। 'मालम्बनच्छामित वस्तुवति। "आदिनाराष्टादि।