SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 1: प्र० वा० वृत्तौ (२ परिच्छेदः) मिन्द्रियदोषादनपेक्षितसाधम्र्म्यमेव जायते तथा ग्राह्यादिभ्रान्तिरपीत्यर्थः, जायमानमेव हि ज्ञानं वासनासामर्थ्यादनुभवाननुभवत्वेनान्तर्व्वहिर्देशत्वेन सुखादि नीलादि दर्शयति । एवं तहि बहिरर्थोपदर्शनशक्तमेव स्वदर्शनहेतुबलात् कस्मानेष्यत ज्ञानमिति चेत् । न (1) स्वप्नादावविद्याया असद्ग्राह्याकारोपदर्शनसामयोपलब्धेः । आकारातिरिक्तबहिरर्थस्यादर्शनान्न ज्ञानस्य तदुपदर्शनसामर्थ्यकल्पना न्याय्येत्यास्तां तावदिदं । ( ३६२, ३६३) झ. विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्था विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्थाप (ना)र्थमा ' ह (1) तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः । तदात्म्यदात्मवित्तस्य स तस्य साधनं ततः ॥ ३६४॥ २२८ तत्र विज्ञप्तिमात्रतायां बुद्धः स 'ग्राहकाकारः संमतः परिच्छेद आकार आत्मबिलू तस्य ग्राहकाकारस्य फलं । ताबात्म्यात् परिच्छेदस्वभावत्वात् स्वसंवित्तिः फलम्वेति सूत्रे स्वाभासं विषयाभासञ्च ज्ञानमुत्पद्यते (1) तत्र यत् स्वसंवेदनन्तत् फले विषय (:) परिच्छेदात्मक एव हि ग्राहकाकारः स एव चात्मवेदन । ततः परि• छेदवशेनात्मवेदनव्यवस्थानात् ( 1 ) स परिच्छेदस्तस्यात्मविदः फलभूतायाः साप्रमाणं । ( ३६४ ) तत्रात्मविषये माने यथा रागादिवेदनम् । इयं सर्व्वत्र संयोज्या मानमेयफलस्थितिः || ३६५|| तत्र एवं सत्यात्मविषये माने स्वसंवेदने प्रमाणे यथा रागादिवेदनं मानमेयफलात्मकं । इयं मानमेयफलस्थितिः सर्व्वत्र विज्ञप्तिनयेपि सं योज्या । ( ३६५) तथा हि (1) तच्च सं.पं. १·३९८ तत्राप्यनुभवात्मत्वात्ते योग्या स्वात्मसंविदि । इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥ ३६६॥, तत्रापि रागादिवेदनेपि ते रागादयोऽनुभवात्मत्वात् स्वात्मनः संविदि योग्या इति तस्मात् सा स्ववेदनयोग्यता रागादीनां मानमात्मा मेयः फलं स्ववित् । (३६६) "बाह्यविज्ञानवादी द्विरावततो भेवकथनार्थं । २ विज्ञप्तौ ग्राह्यांशो मेयो यः पूर्व्वं प्रमाणमुक्तः । ग्राहकांशः प्रमा तदुभयसदनं फलं । स्वविनिष्ठं । ४ अनुभवनीयः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy