________________
अर्थसंवेदनचिन्ता
२२७
एवन्तकं तावत् ज्ञानं नानाकारं स्यादिति शङ्कायां नकारं काकाक्षिक्त् संबन्धयन्नाह (1)
नाभेदो रूपदर्शनात् । रूपाभेदेपि पश्यन्ती धीरभेदं व्यवस्यति ॥ ३५९ ॥
ना' भेवो ज्ञानस्याभि बुद्धस्य रूप स्यादर्शनात् । रूपाभेदञ्चाद्रयादौ पश्यन्ती धीरभेदं व्यवस्यति । न च ग्राह्यग्राहकादिषु भिन्नाभासेष्वभेदप्रतिभासः । ( ३५९ ) तस्माद् (1)
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ ३६०॥
भावा ग्राह्यादयो येन रूपेण ग्राह्यत्वादिना निरूप्यन्ते अनुभूयन्ते तद्रूपं तत्त्वतस्तेषां नास्ति । यस्मादेकं रूपमनेकञ्च रूपं तेषां न विद्यते । वस्तुभवदेकमनेकं वा स्यात् । न च ग्राह्याद्याभा एकोऽनेको वा युक्तः । तस्मादुप्पलव एवायं । (३६०) ननु (1)
• साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते । . अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ॥ ३६१ ॥ प्रदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः ।
लोके
साधर्म्यदर्शनादतदात्म" नि
तादात्म्यव्यवसायेन भ्रान्तिव्वितथा- 44b कारा बुद्धिर्जायते इति नाम प्रसिद्धं । इह' विज्ञप्तिनये तत् साधर्म्यदर्शनं नास्ति । (३६१ ) एकस्यापि तदात्मनो भूताकारस्य जगत्यदर्शनात् ।
अत्राह (1)
अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा ॥३६२॥ दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी । अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ॥३६३॥
साधर्म्यदर्शनाद्या मानसी भ्रान्तिरियमप्यस्ति । या पुनरन्तरुपप्लवसमुद्भवा अविद्याप्रभवा सा प्रकृत्या दोषोद्भवा । अविद्या तिमिरादिहेतुका वितथप्रतिभासिन्यभूताकारा अनपेक्षितसाधर्म्यद्गादिस्तैमिरादिवत् । यथा तिमिरज्ञान
'अभिन्नरूपदर्शने हि अभेदः स्यात् ।
"बुद्धेन रूपन दृश्यते ।
चित्तगताः ।
४
" मरीचिषु जलवत्। इयमेवेति तु न नियमः । अनपेक्षितसाधर्म्याप्यस्ति ।