________________
प्र० वा० वृत्तौ (२ परिच्छेदः)
कस्मात्पुनर्मन्त्रादिसामर्थ्यात् सुवर्णादितामेव यातं मृत्खण्डमिति नाभ्युप (ग) म्यते इत्याह (1)
२२६
तथैव दर्शनात्तेषामनुपप्लुतचक्षुषाम् । दूरे यथा वा मरुषु महानल्पोपि दृश्यते ।। ३५६ ॥
मन्त्रादिनाऽनुपप्लुतचक्षुषान्येन पुंसा तेषां मृच्छकलादीनां यथोपहताक्षेण ते दृश्यन्ते तथैव दर्शनात् मृदात्मत्वेनैव दर्शनात् सुवर्णादित्वेन निष्पत्तिकल्पनमयुक्तं । यथा मरुषु दूरेऽल्पोपि महान् दृश्यते तद्देशस्यैरल्पत्वेनैव भातस्य' दर्शनात् । (३५६)
5 यथानुदर्शनञ्चेयं मेयमानफलस्थितिः ।
-क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥३५७॥
तस्माद् ग्राह्यग्राहकसंविदां परमार्थतोऽविद्यमानापि मेयमानफलस्थितिर्यथादर्शनं क्रियते । ग्राह्याका' रो मेयः ग्राहकाकांरो मानं संवित्तिः फलमिति व्यवस्थाप्यते । (३५७)
'अन्यथैकस्य भावस्य नानारूपावभासिनः ।
सत्यं कथं स्युराकारास्तदेकत्वस्य हानित: ॥ ३५८ ॥
अन्यथा यदि वस्तुतो ग्राहकादिविभाग इष्यते तबैकस्य भावस्य ज्ञानात्मनो नानारूपा (व) भासिनोऽनेकाकारप्रतिभासवन्त आकारा ग्राह्यादिकाः कथं सत्यं स्युः। तस्यैकज्ञानात्मन एकत्वस्य हानितः । न ह्येकं प्रतिभासमानानेकाकारात्मकं भवितुमर्हति । प्रतिभासेन सर्व्वेषां भेदेन व्यवस्थापनात् । ( ३५८)
अनेकमेव तर्हि ज्ञानं परिच्छेदादित्वेन स्यादित्याह ।
अन्यस्यान्यत्वहानेश्च ;
न चानेकं ज्ञानं एकमेवेष्टव्यं । वस्तुतो भिन्नस्याभेदे इष्यमाणे ग्राह्यादेः परस्परतोऽन्यस्यान्यत्वहानेः । यदा हि भेदप्रतिभासेप्येकत्वमिष्टं तदा भेद एव न व्यवस्थितः । ततश्च सुखदुःखादयो नीलपीतादयश्च परस्परं न भिद्येरन् । प्रतिभासभेदस्य तत्साधनत्वात् । अन्यस्य च तत्साधनस्याभावात् ।
'प्रथमे विकल्पे नीलादिपरिच्छेदद्वारेण तज्ज्ञानं फलं आकारः प्रमा। द्वितीये विज्ञप्तौ ग्राह्यांशः प्रमेयो ग्राहकांशः प्रभा । तदुभयवेदनं फलं । तृतीये तु प्रतिपतृव्यवसाये नेष्टानिष्टादिरूपेण गृह्यमानोऽर्थः प्रमेयः तथा भानं मानं । तत्संवित् फलं । तवार्थाभासतैवासत्तैवास्य प्रमाणमित्युक्तः चतुर्थः ।