________________
अर्थसंवेदनचिन्ता
२२५
२९५
हेतुरित्यर्थस्य प्रमेयतेष्टा सौ त्रान्ति क मते । सारूप्यस्य परमार्थतः "सरूपयन्ति तत् केन स्थूलाभासञ्च तेणव” (२।३२१) इति प्रतिषेधात्' । (३५२) __ यथा कथञ्चित्तस्यार्थरूपं मुक्त्वावासिनः ।
अर्थग्रहः कथं ; यदि सारूप्याभावस्तदा तस्य ज्ञानस्यावभासिनो यथा कथञ्चिदिष्टानिष्टादिना भासमानमर्थरूपमर्थाकारं मुक्त्वा कथं केन प्रकारेणार्थस्य प्रहः स्यात् । न ह्यर्थः स्वरूपेण दृश्यते। तत् स्वरूपबुद्धिवेदनादर्थग्रहव्यवस्था। सारूप्यमेव चेन्न संभवति कथमर्थग्रह इति मन्यते सौ त्रान्ति कः यो गा चा र स्तु तस्य साहाय्यकं मन्यमान आह (1)
- सत्यं न जानेहमपोदृशम् ॥३५३॥ · सत्यं न जानेऽहमपीवृशमर्थग्रहः कथमिति। (३५३) कथं तर्षसत्यर्थे ग्राह्यग्राहकफलभेद इत्याह (1)
1 अविभागोपि बुद्ध्यात्मविपर्यासितदर्शनैः। . . ग्राह्यप्राहकसंवित्तिभेदवानिव लक्ष्यते ॥३५४॥'
परमार्थतोऽविभागो भेदरहितोपि बुद्धधात्मव्यवासनया विपर्यासितं विभागेनोपदशितं दर्शनं येषां तैरतत्त्वदर्शिपुरुषायवाहकसंवित्तीनां परस्पर भेवस्तद्वानिव लक्ष्यते। (३५४) अत्र दृष्टान्तमाह (1)
मन्त्राधुपप्लुताक्षाणां यथा मृच्छकलादयः।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥३५५॥ यथा मुच्छकालावयो मन्त्रादिभिरुपप्लुतयथार्थज्ञानहेतुकृतमहं येषां तेषामन्यथा सुवर्णादित्वेनैवावभासन्ते। तेन सुवर्णादिना रूपेण रहिता अपि वस्तुतः। (३५५)
मा)
१ ननु तावृशोऽन्यावृशोपि वार्थः प्रमेयो नेष्टः स्वपरयोस्तत् किमेवमुच्यते। परेण स्ववाचा बाह्यं निषेषयितुमुक्तं तवाह । २ य एवमिच्छति स पच्छपतां। आनुषङ्गिकमुक्त्वा विज्ञप्तौ प्रमादिमाह।
२६