________________
प्र० वा० वृत्तौ (२ परिच्छेदः)
सारूप्यवशेनार्थाधिगतिव्यवस्था तस्माद् बुद्धिनिवेश्यार्थोऽर्थप्रतिबिम्बं साधनं प्रमाणं तस्य प्रमाणस्य साधिगतिः क्रिया फलमिष्यते । ( ३४९)
यथा निविशते सोर्थो यतः सा प्रथते तथा । अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता ॥३५०॥
२२४
यतः कारणात् यथार्थो ज्ञानात्मनि निविशते तथा सा स्वसंवित्तिः प्रथते ख्याति ( 1 ) तस्मादर्थस्य स्थितेरधिगतेस्तदात्मत्वात् परमार्थतः १ स्वविदपि सती अर्थविद् मता । स्वसंवेदनमेवार्थवेदनमुपचारादुच्यत इति तादात्म्य - मनयोः (।) (३५०)
तस्माद् विषयभेदोपि न ;
यस्मादर्थाकार एव प्रमाणं प्रतीतिसाधनत्वात् फलञ्च प्रतीयमानं तस्मात्प्रमाणफलयोविषयभेदोपि नास्ति । यथा परमते आलोचनविशेषणज्ञानादीनामेकार्थापेक्षयावेव हि सारूप्यप्रतिपत्ती प्रमाणफलत्वं प्रतिलभेते ।
यद्यर्थसंवेदनं फलं तदा स्ववित्फलं कथमुक्तमित्याह (1) स्वसंवेदनं फलम् ।
उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः ||३५१॥
अर्थसंवेदनस्य वस्तुतः स्वभावचिन्तायां स्वसंवेदनं फलमुक्तं । अर्थसंविदस्ता - । दात्म्यात् स्वसंवेदनात्मत्वात् । न स्वाकारप्रतीतेरन्यास्त्यर्थप्रतीतिः स्वरूपेण तस्या: प्रतीतेः । (३५१)
ननु यदि यथार्थं नानुभवस्तदा स्ववासनाप्रबोधकमनुवर्तमानस्य ज्ञानस्यार्थो बाह्योस्तीत्येतदेव कुत इत्याह ( 1 )
तथावभासमानस्य तादृशोऽन्यादृशोपि वा । ज्ञानस्य हेतुरर्थोपीत्यर्थस्येष्टा प्रमेयता ||३५२ ||
तथा इष्टानिष्टाकारेणाव भासमानस्य ज्ञानस्यार्थोपि तादृशोन्यादृशो वा
१ तद्यद्यर्थसारूप्यं मानं स्ववित्फलं तदा विषयभेदः । आत्मविषया वित्तिर्बाह्यविषयं सारूप्यमित्याह । प्रतिभासमात्रेण तद्व्यवस्थाहेतुत्वात् ।
विद्यमानेपि बाह्येर्थे यथानुभवमेव वे ( २१३४२) त्यादिना । " यदा त्वबाह्य एवार्थः प्रमेय" इत्यादि समुच्चयस्य तृतीयः फलविकल्पो व्याख्यातः ।
विना च बाह्यं तत्स्वरूपाग्रहणे कथम्बाह्यार्थस्तृतीयः फलविकल्पः । ४ अर्थनिरपेक्षत्वं । * यथावभासोऽन्यादृशो आलोकादिभावेपि नीलादिरहितदेशेऽनुत्पत्तेरिन्द्रियसिद्धिवत् ।