SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ . .. अर्थसंवेदनचिन्ता , २२३ इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि । अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम् ॥३४५॥ यथावस्थितवस्तुग्राहिण्यक्षधीस्तदनन्तरमिष्टानिष्टावभासिन्यः कल्पनाऽयथार्था। तेनानेकात्मकत्वदोषप्रसङ्ग इति यदीष्यते। तत्रैन्द्रियत्वेप्यनिष्टादावादिशब्दात्कामलादौ चेतसामिन्द्रियज्ञानानामसन्धानमर्थाकाराननुविधानं दृष्टं । तस्मादिन्द्रियबुद्धिरयथार्थाकारा न भवतीति नास्ति। (३४५) तस्मात् प्रमेये बाह्येपि युक्तं स्वानुभवः फलम् । यतः स्वभावोस्य यथा तथैवार्थविनिश्चयः ॥३४६॥ .. तस्मान्न केवलं स्वरूपे बाह्येपि प्रमेये स्वानुभवः फलं युक्त। यतः कारणात् स्वभावोस्य ज्ञानस्य यथा प्रतिभाति तथैव नार्थस्य विनिश्चयः सिध्यति। (३४६) तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि । ग्राहकाऽत्माऽपरार्थत्वाद् बाह्येष्वर्थेष्वपेक्षते ॥३४७॥ तत् तस्माद् बाह्येष्वर्थेषु ग्राह्येष्वस्य ज्ञानस्यार्थाभास ताऽर्थाकारतैव प्रमाणमापेक्षते न त्वन्वयिग्राहकात्मा ग्राहकाकारोऽपरार्थत्वात् आत्मविषयत्वात्तस्य। (३४७) ज, आत्मसंविदेवार्थसंविद् यस्माद् यथा निविष्टोसावर्थात्मा प्रत्यये तथा। निश्चीयते निविष्टोसावेवमित्यात्मसंविदः ॥३४८॥ यस्मात्कारणाद्यथा इष्टत्वेनानिष्टत्वेन वार्थस्यात्माकारः प्रत्यये निविष्टस्तथाऽर्थों निश्चीयते तस्मादाकारः प्रमाणं। असावकार एवमिष्टानिष्टत्वेन बुद्धौ निविष्ट इत्यात्मसंविदः स्वसंवेदनानिश्चीयते। (३४८) इत्यर्थसंवित् सैवेष्टा यतोर्थात्मा न दृश्यते। तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥३४९॥ इति तस्मात् सैवात्मसंविदर्थसंविदिष्टा। यतः स्वरूपाद् बहिर्भूतोऽर्थात्मा न दृश्यते' बुद्धयाकार एव तु वेद्यते। अतस्तद्वेदनदर्शनमेवार्थवेदनं । यस्माच्चार्थ १ अन्याकारत्वं। 'ज्ञानारूढाकारसम्वेदनानुरूपेणार्थावसायव्यवस्थानात् । परार्थ प्रमाणन्न च प्राहाकारवद् ग्राहकाकारो व्यवस्थाकारीति भावः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy