________________
२२२
प्र० वा. वृत्ती (२ परिच्छेदः) • बहिरर्थनयेपि बुद्धिवेदनस्यैवार्थवेदनत्वात् तथा यदीष्टाकारोऽस्या बुद्धरात्माअनुभूयतेऽन्यथानिष्टाकारो वा। तदा तेन ज्ञानेनेष्टोऽनिष्टो वार्थः प्रवेदितो भवति नान्यथा। (३४०)
विद्यमानेपि बाह्यर्थे यथानुभवमेव सः।
निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः ॥३४१॥ यस्माद्विद्यमानेपि बाह्येऽर्थे यथानुभवमनुभवाकारानतिक्रमेण स बाह्योऽर्थो निश्चितात्मा व्यवस्थाप्यते नार्थस्वरूपेण। यथा सम्भविना निश्चितात्मा व्यवतिष्ठते। इष्टानिष्टत्वेन पुरुषाभ्यामेकस्यार्थस्य ग्रहणादनेकात्मत्वदोषः प्रसज्यते ।' (३४१)
यदि बाह्यं न विद्यत कस्य संवेदनं भवेत् । यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम्* ॥३४२॥
अभ्युपायेपि भेदेन न स्यादनुभवो द्वयोः। - अदृष्टावरणात्स्यात् चेन्न नामार्थवशा गतिः ॥३४३॥
अनेका त्मकत्वस्याभ्युपाये स्वीकारेपि द्वयोः पुरुषयो देनेष्टत्वेनैकस्यान्यस्य चानिष्टत्वेनानुभवो न स्यात् । द्वयाकारत्वाद्वस्तुनस्तथैव प्रतीतिप्रसक्तिः । अदृष्टेन सुखदुःखवेदनीयेन कर्मणावरणात्। द्वितीयस्याका रस्य एकात्मत्वेन प्रतिभासः स्यादिति चेत्। एवं सत्यर्थवशा ग तिर्ज्ञानमिति नाम प्रसिद्धं न स्यात् । अदृष्टवशेनेष्टानिष्टाकारयोः प्रतीतेरुपदर्शनात् । (३४२, ३४३) किञ्च (1)
तमनेकात्मकं भावमेकात्मत्वेन दर्शयत ।
तददृष्टं कथं नाम भवेदर्थस्य दर्शकम् ॥३४४॥ भावमनेकात्मकमेकात्मकत्वेनकाकारतया दर्शयददृष्टं तत्कथमर्थस्य वर्शकं नाम भवेत्। तदेव हि दर्शकमस्य यत् तत्स्वरूपं प्रतिभासयति। न चैकाकारोऽर्थः । ततस्तत्प्रतीतिर्नार्थप्रतीतिः। (३४४) ..
'अर्थवशाद् बुद्धर्व्यवस्थाने यावन्त आकारा ज्ञाने तेर्थगताः प्रसजन्तीत्यनेकाकारोथः स्यात्। *वृत्तिकृता त्वविवृतषा॥ सांख्यस्य बाह्यरूपाः सुखादयः त्रिगुणात्मकत्वाज्जगतः। . बाह्यवादिभिरपि यथानुभवमेवार्यनिश्चयोऽभ्युपगत इत्यात्मानुभव एवार्थस्य। द्वयोरपीष्टानिष्टसङ्करप्रतीतिः स्यात्। आलोकं चिकीर्षता सर्वमेवान्धीकृतं तहि।