________________
अर्थसंवेदनचिन्ता
नुभवं कालान्तरे स्मर्यते च ( 1 ) यथा चान्यस्य संवेदनाभावात् । उभयाद्याकारस्य नीलाद्यनुभवरूपस्य संवेदनं फलं । तदेवं प्रमेयो ग्राह्याकारः प्रमाणं ग्राहकाकारः फलं स्वसंविदिति दर्शितं भवति । ( ३३७ )
छ, अर्थसंवित्फलम्
यदा निष्पन्नतद्भाव इष्टोनिष्टोपि वा परः । विज्ञप्तिहेतुविषयस्तस्याश्चानुभवस्तथा ॥३३८॥
यदा बहिरर्थवापि परो बाह्योऽर्थ इष्टोऽनिष्टोऽपि वा निष्प्रन्नतद्भावो भावनावशाद् व्यवस्थितेष्टानिष्टभावः सरूपाया विज्ञप्तेर्हेतुः सन् विषयो भवति । तदा तस्या विज्ञप्तेस्तथा इष्टानिष्टाकारेणानुभवो विषयस्य चानुभव उच्यते । तेन विषयसारूप्यं प्रमाणमर्थसंवित् फलमुक्तं । ( ३३८)
अथवा विज्ञानवादेप्यविरुद्धमित्याह ( 1 )
"
यंदा सविषयं ज्ञानं ज्ञानांशेर्थव्यवस्थितेः ।
तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ ३३९ ॥
यदा ज्ञानस्यांशे आकारे विप्लववशात् अर्थ *स्य व्यव' स्थितेर्ज्ञानं सविषयमिष्टं । तवां य आत्मनो ज्ञानाकारस्यानुभवः स एवार्थस्य निश्चयः संवेदनमिष्यते 43b (i) ततश्च विज्ञान वा दे प्यर्थाकारः प्रमाणमर्थसंवित्फलमविरुद्धं । (३३९) यदीष्टाकार आत्मा स्यादन्यथा 'वानुभूयते । इष्टोनिष्टोपि वा तेन भवत्यर्थः प्रवेदितः ॥ ३४० ॥
.१ "सव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत् । प्रमानसमु- 3181 स्वसम्वित्तिः फलम्वात्र तद्रूपो ह्यर्थनिश्चयः ।
विषयाभासतैवास्य प्रमाणन्तेन मीयते ।
२२१
यदाभासं प्रमेयन्तत् प्रमाणफलते पुनः ॥ ग्राह्यग्राहकसम्बित्ती त्रयन्नातः पृथक्कृतमिति प्रमाणसमु. १|११| सूत्रचतुष्टयानुरोधाच्चतुरावतितः फलविकल्पः । सम्भवमात्रेणामी विकल्पाः
५ रागद्वेषाभ्याम् ।
समाप्तिस्तु विज्ञानवाद एव कृता ॥
* असमर्थोयमेषः फलविकल्पः ।
8 इति द्वितीयः फलविकल्पः
*
ग्राह्यस्य । ● अर्थशून्यं ।
a
ग्राह्याकारः प्रमेयः ।