________________
२२०
प्र० वा. वृत्तौ (२ परिच्छेदः) व्यवस्थितं। यत्तावत् नीलादिकं बाह्यमित्युच्यते। तज्ज्ञानेन सहोपलम्भनियमात् तदभिन्नस्वभावं द्विचन्द्रादिवत् । कस्तर्हि नास्तीत्याह (1)
नार्थो बाटोस्ति केवलम् ॥३३५॥ बाह्यो नीलादिरर्थः केवलं नास्ति। तत्साधकत्वेनाभिमतस्याध्यक्षस्यासामर्थ्यात्। (३३५) ___ एवन्तहि ज्ञानस्य गजाद्याकारस्यालोकादिनिमित्तान्तरसद्भावेपि देशकालादिप्रतिनियमदर्शनात् अर्थो व्यवस्यतीत्याह (1)
कस्यचित् किश्चिदेवान्तर्वासनायाः प्रबोधकम् ।
ततो धियाम्विनियमो न बाह्यार्थव्यपेक्षया ॥३३६॥ कस्यचिज्ज्ञानस्य गजाद्याकारस्य किञ्चिदेव ज्ञानमन्तर्वासनायाः समनन्तरप्रत्ययान्तरवत्तिन्या नियतज्ञानजननयोग्यतालक्षणायाः प्रबोध के कार्योत्पादनाभिमुख्यकारकं । ततः प्रबोधकवशात् धियां नियताकार तया विनियमः। न बाह्यार्थव्यपेक्षया (1) को हि विशेषो बाह्यो वा नियामकः प्रतिभासस्य प्रबुद्धवासनाविशेषः समनन्तरप्रत्ययो वा। तत्र वासनायाः सामर्थ्य स्वप्नादावुपलब्धं । न तु बाह्यस्य नित्यपरोक्षत्वात्। न तथापि परोक्षस्य बाह्यस्य साधकस्याभावेपि नाभावस्थितिरिति चेत्। प्रतिभासमानं ज्ञानं बाह्यं तु न प्रतिभासत एवेति तावतैवाभिमतसिद्धेः। साधकप्रमाणरहितपिशाचायमानबहिरर्थनिषेधेनास्माकमादरः । यदि तु तनिषेधनिबन्धो गरीयान् सांशत्वानंशत्वकल्पनया परमाणुप्रतिषेधे आ चार्टी यः पर्येशि (?। षि)तव्यः। (३३६)
च, विज्ञानवैरूप्यम् तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते ।
स्मर्यते चोभयाकारस्यास्य सम्वेदनं फलम् ॥३३७॥ यस्माद् बाह्योऽर्थो नानुभूयते तस्मादेकं विज्ञानं अविद्योपप्लुतत्वात् द्विरूपं बोधरूपं नीलादिरूपञ्चास्ति। यत् यस्माज्ज्ञानमेवं द्वयाकारतयाऽनुभूयते स्ववेदनेन यथा
'भ्रान्त्या। 'प्यस्तीति। अन्यथा सदा सर्वत्र ज्ञानं स्यात् । यथा बीजादि सदा स्थितोपि कार्यकारी।
आलयाख्य। आलयपरिणतेः सहकारिज्ञान। .