________________
अर्थसंवेदनचिन्ता..
२१९ पाह्यप्राहकलक्षणा सा। न हि वस्तुतो ग्राह्यग्राहकभावः सम्भवति। न च विप्लववशाद्वस्तुव्यवस्था केशद्विचन्द्रादेरपि तत्त्वप्रसङ्गात्(1) यदा च न ग्राह्यग्राहकता विज्ञप्तिमात्रतायां तदान्यस्य ग्राह्यस्य संविदो ज्ञानस्याभावात् स्वसंवित् फलमिव्यते। (३३२)
ङ. बाह्यार्थनिरासः यदि बाह्योनुभूयेत को दोषो नैव कश्चन ।
इदमेव किमुक्तं स्यात् स बायोथोनुभूयते ॥३३३॥ ननु यदि बाह्योऽर्थो ज्ञानेनानुभूयते तदा को बोषः। येन स्वसंवित् फलमिष्यते।
आह (1) यद्यनुभूयते तदा नैव कश्चन दोषः। अनुभव एव तु बाह्यस्य नास्तीत्युच्यते। तथा इदमेव किमुक्तं स्यात् 'बाह्योऽर्थो ज्ञानेनानुभूयत' इति' (३३३।).
यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी। - सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥३३४॥ -
यदि बुद्धिस्तदाकारा वा बाह्यसरूपेत्युच्यते। सत्यमस्ति सा बुद्धिराकारविशेषिणी नीलानीलाद्याकारविशेषयुक्ता। किंतु सा बुद्धिबर्बाह्यावज्जिायेतान्यतो वासनाप्रतिनियमाद्वा इति विचारमिदमर्हति । न तावद् बुद्धिव्यतिरेकिणाऽर्थः कश्चिद्धेतुतयोपलभ्यते। बुद्धिस्वरूपमात्रवेदनात् । कादाचित्कतया तु कारणं तस्याः किञ्चिद् व्यवस्थापनीयं तच्च बाह्यं वासना वा स्यात् उभयथाप्युपपत्तेः। (३३४) . दर्शनोपाधिरहितस्याग्रहात्तद्ग्रहे ग्रहाद्। उत्पाहारिमाध!
दर्शनं नीलनिर्भासं ; तत्र वर्शनेन ज्ञानेनोपाधिना विशेषणेन रहितस्य नीलादेरग्रहात्। तस्य प्रहे च नीलस्य प्रहात् सहैव नीलधियोर्बेदनात् दर्शनं नीलाविनिर्भासं नीलाकारं
'रिक्तं पश्यन् पृच्छति परं। 'यदि निराकारा बुद्धिविषयोऽर्थान्तरं तदा सम्बन्धासिद्धः। तथा नीलाकारस्यांग्रहे ज्ञानाग्रहात्।। नीलग्रहे वर्शनाच्च । न हि ज्ञाने द्वावनुभवौ किन्तु स्वोपलम्भ एव ज्ञानस्यापि।