________________
२१८
प्र० वा. वृत्तौ (२ परिच्छेदः) तस्य ज्ञानस्य नीला' दिरूपोऽसौ स्वभावोऽनुभवः प्रकाशात्मकश्च सः। तेन स्वरूपानुभवोपि सन्नीलाद्यनुभवात् तथा संप्रसिद्धिः । (३२८)
प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः।
यथा प्रकाशोभिमतस्तथा धीरात्मवेदिनी ॥३२९॥ यथा प्रकाशस्तादात्म्यात् प्रकाशात्मकत्वात् परनिरपेक्षः प्रकाशमानः स्वरूपस्य प्रकाशकोऽभिमतः। तथा धीः परनिरपेक्षा प्रकाशात्मनोत्पन्ना प्रकाशमानाऽत्मवेदिनीति उपचारादुच्यते। (३२९)
तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदको । अवेद्यवेदकाकारा; यथा भ्रान्तैर्निरीक्ष्यते ॥३३०॥
विभक्तलक्षणग्राह्यग्राहकाकारविसवा । चकारो हेतौ। यस्मात्तस्या धियोऽर्थान्तरे वेद्ये वेद्यवे (द)काकारौ दुर्घटौ(1) तस्माद् वस्तुतोऽवेद्यवेदकाकारा सा बुद्धिर्नीलप्रकाशात्मनोत्पन्ना तथा प्रकाशते। न तु तत्र कश्चिद् ग्राह्यस्य ग्राहकस्य चाकारः समस्ति। कथं तर्हि ग्राह्यग्राहकप्रतिभासव्यवसायावित्याह (1) भ्रान्तैरप्रहीणद्वयवासनाविप्लवैर्यथा विभक्तलक्षणौ ग्राह्यग्राहकाकारावेव विप्लवौ यस्याः सा तादृशी निरीक्ष्यते विभाव्यते भ्रान्तदर्शनानुरोधेन (। ३३०)
घ. ग्राह्यग्राहकप्रतिभासव्यवसायः तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ॥३३१॥ ___ तथा ग्राह्यग्राहकभेदेन कृतव्यवस्था स नीलादिबहिर्देशं ग्राह्यमान्तरञ्च संवेदनं ग्राहकमिति विप्लव एष केशादिज्ञानभेदवत्। न हि केशोण्डूकज्ञानविशेषस्य
ग्राहकवद् ग्राह्यः केशावयवोस्ति (1) किं तर्हि केशाभासः प्रकाश एव 43a के वल: । (३३१)
यदा तदा न संचोद्यग्राह्यग्राहकलक्षणो ।
तदान्यसम्विदोभावात् स्वसम्वित् फलमिष्यते ॥३३२॥ विप्लववशाच्च ग्राह्यग्राहकभेदेन बुद्धिर्यदा व्यवस्थाप्यते तदा न सं'चोद्य
'कल्पितः कर्मकादीति वाच्यं । 'न संचोये ग्राह्यग्राहकलक्षणे यस्याः ।