________________
२१७
अर्थसंवेदनचिन्ता दृश्यदर्शनयोः सैव प्रत्यासत्तिविचार्यतेऽस्माभिः। (३२४)
दृश्यदर्शनयोर्येन तस्य तद् दर्शनम्मतम् ।
तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ॥३२५॥ येन प्रत्यासत्तिसम्भवेन तस्य बाह्यस्य तज्ज्ञानं वर्शनं मतं। तयोर्दश्यदर्शनयोः सम्बन्धं प्रत्यासत्तिमाश्रित्य द्रष्टुः पुरुषस्येदं दृष्टं श्रुतं वेदमित्यर्थनिश्चयः। तत्सारूप्यतदुत्पत्तिलक्षणा च प्रत्यासत्तिः समनन्तरप्रत्ययेपि समानेति तनिबन्धनो दृष्टश्रुताध्यवसाय ()पि तत्र स्यादित्यर्थः । (३२५) - आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित् ।
प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता ॥३२६॥ तस्माद्वैद्यरहितस्तस्य ज्ञानस्य स नीलादिरूप आत्मानुभवः (1) स चानुभवो नान्यस्य कस्यचिद् बाह्यस्य। तस्य ज्ञानस्य प्रत्यक्षप्रतिवेद्यत्वमपि यदुच्यते। सा तदात्मताऽपरोक्षानुभवात्मता। (३२६)
नान्योनुभाव्यस्तेनास्ति तस्य नानुभवोपरः। । तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥३२७॥ यथा च स्वरूपादन्यो बुद्धया अनुभाव्यो नास्ति। तथा तस्य ज्ञानस्य चापरोऽनुभवो नास्ति। तस्य ज्ञानग्रहण स्यापि तुल्यार्थचोखत्वात् । स ह्यन्यत्वनिबन्धनो ग्राह्यग्राहकभावः। तच्चानुपपन्नमित्युक्तं । तत्तस्मात्तत् ज्ञानमपरोक्षतयोत्पन्नं स्वयं प्रकाशते। नान्येन प्रकाश्यते। (३२७)
ग. नीलाद्यनुभवप्रसिद्धिः कथं तहि नीलाद्यनुभवप्रसिद्धिरित्याह (1) . नीलादिरूपस्तस्यासौ स्वभावोनुभवश्च सः। नीलाधनुभवात् ख्यातः स्वरूपानुभवोपि सन् ॥३२८॥
'ज्ञानज्ञेययोः पृथगिष्टे न तादात्म्यं तद्रूपेर्थेऽसत्यपि तद्रूपज्ञानात् न तदुत्पत्तिः विषयव्यवस्थाश्रय इदं परामर्शः परामर्शाच्च तद्विषयव्यवस्था।
ग्राह्यग्राहकत्वायोगात्। ग्राह्यत्वस्य। ४ यत् स्वसम्विद्रूपं तन्निरालम्बनं यथा स्वप्नज्ञानं स्वविद्रूपञ्च जागरेपीति तन्मात्रानुबन्धित्वा (त्) स्वभावहेतुरुक्त (।) एतेन अप्रत्यक्षोपलम्भस्य नार्षदृष्टिः। प्रसिध्यतीति नासिद्धत्वं।
२८