________________
२१६
प्र० वा. वृत्तौ (२ परिच्छेदः) यच्चार्थसारूप्यमनुभवनिबन्धनमुक्तं तदप्यसम्भवीति दर्शयन्नाह (1)
सरूपयन्ति तत् केन स्थूलाभासच तेऽणवः ॥३२१॥ ते परस्परं भिन्ना अणवः तज्ज्ञानं स्थूलाभासं स्थूलाकारं केन रूपेण सरूपयन्ति । यदणुस्वरूपमस्थूलमस्ति न तत् ज्ञानारूढं। यच्च ज्ञानारूढं स्थौल्यं नाणुषु तदस्ति। (३२१)
तन्नार्थरूपता तस्य सत्यार्थाव्यभिचारिणी।
तत्सम्वेदनभावस्य न समर्था प्रसाधने ॥३२२॥ तस्मात्तुल्यज्ञानस्य नार्थरूपताऽस्ति । सत्यां वार्थरूपतायां व्यभिचारिणी सा विचन्द्रज्ञानादिषु। ततश्च तत्संवेदनभावस्यार्थसंवेदनत्वस्य प्रसाधनेषु साऽर्थरूपता न समर्था । न केवलादर्थसारूप्यादर्थसंवेदनत्वं येन व्यभिचारः स्यात्() किन्तहि सारूप्यतदुत्पत्तिभ्यां(0) ते च द्विचन्द्रज्ञानादीनां न स्तः । चन्द्रद्वयस्याभावात् तदुत्पत्तेरयोगात्। (३२२)
एतदेवाह (1)
१ तत्सारूप्यतदुत्पत्ती यदि सम्वेद्यलक्षणम् । - सम्वेद्यं स्यात् समानार्थ विज्ञानं समनन्तरम् ॥३२३॥
तेन ग्राह्येण सारूप्यं तस्मादुत्पत्तिः स्वसम्वेद्यस्य लक्षणं यदि संमतं तदापि समन तरं शानमुत्तरज्ञानेन समानार्थ समानग्राह्यं संवेद्यं स्यात्। तत्सरूपतदुत्पत्त्योः संभवात्। (३२३)
- ख. दृश्यदर्शने प्रत्यासत्तिविचारः स्यादेतत्().
इदं दृष्टं श्रुतम्वेदमिति यत्रावसायधीः।
न तस्यानुभवः - सारूप्यतदुत्पत्तिमत्त्वेपीदं दृष्टं श्रुतम्वे दमिति यत्रावसायधीरुत्पद्यते तस्य सोऽनुभवो नान्यस्य। न च समनन्तरप्रत्यये दृष्टश्रुत्पद्यवसायो भवति तन्न ग्राह्योऽसौ। अत्राह (1)
___ सैव प्रत्यासत्तिविचार्यते ॥३२४॥
१ अवयवी सौन्त्रान्तिकेनव निरस्तः। 'पूर्वानुभूतस्मरणं। स्मार्तेनेदं प्रयोगः।