________________
२१४
प्र० वा. वृत्तौ (२ परिच्छेदः) तदभेदेपि भेदोयं यस्मात्तस्य प्रमाणता ।
संस्काराच्चेदताद्रूप्ये न तस्याप्यव्यवस्थितेः ॥३१७॥ यस्मादिन्द्रियसन्निकर्षादेः प्रामाण्यमयुक्तं तत्तस्मादभेदेपि सन्निकर्षाद्यविशेषेपि यस्मानियामकात् तज्ज्ञानस्यायं भेदो नीलस्येदं ज्ञानं पीतस्य चेदमित्यादि तस्य प्रमाणता युक्ता। स च आकार एवेति स एव प्रमाणं ज्ञानजातज्ञानहेतोः संस्काराज्ज्ञानस्य कैश्चिदेव धर्मंर्ग्रहणनियम इति चेत् न (1) तस्य संस्कारस्याप्यताद्रूप्ये विषयासरूपत्वेऽव्यवस्थितेः। (३१७)
यदाकारं ज्ञानं स्यात्तस्यानुभवः संस्कारश्च भवेत्। तस्माच्च ग्रहणप्रतिनियमः। अनुभवस्थित्यभावे तु सर्वमव्यवस्थितं ।
क्रियाकरणयोरैक्यविरोध इति चेदसत् ।
धर्मभेदाभ्युपगमाद् ; क्रियाकरणयोरधिगमाकारयोरैकात्म्ये विरोध इति चेत् । असदेतत्। धर्मभेदस्य व्यावृत्त्युपकल्पितस्याभ्युपगमात् । अनाकारव्यावृत्तिः प्रमाणं । अनधिगतिव्यावृत्तिश्च फलमिति नानयोरैक्यं ।
कथन्तर्युक्तं (1) “सा च तस्यात्मभूतैव तेन नार्थान्तरं फलमि” (२।३०७) त्याह (1)
वस्त्वभिन्नमितीष्यते ॥३१८॥ परमार्थतो ज्ञानात्मकं वस्त्वभिन्नमितीष्यते । (३१८)न तु कल्पितधर्मद्वारेणपि । किं पुनस्तत्त्वत एव साधनाद् भिन्नाऽधिगतिश्छि दादिवन्नेष्यत इत्याह (1)
एवं प्रकारा सर्वैव क्रियाकारकसंस्थितिः ।
भावस्य भिन्नाभिमतेष्वप्यारोपेण वृत्तितः ॥३१९॥ सर्वैव क्रियाकारकयोः संस्थितिर्व्यवस्था एवं प्रकारा कल्पितैव भिन्नाभिमतेष्वपि दारुपरश्वादिषु क्रियाकरणभाव स्यारोपेण वृत्तितः। न हि तत्रापि कार्यकारणवस्तुद्वयव्यतिरिक्ता क्रियास्ति। द्विधाभूतं काष्ठमेवातद्व्यावृत्त्या भेदान्तरप्रतिक्षेपेण छिदेत्युच्यते। तत्कारणेषु च पुरुषकरपरश्वादिषु सामग्र्यन्तरत्तिनः कराच्छिदायाः अनुत्पत्तेः परशोरसाधारणं सहकारित्वमुपदर्शयितुमतद्व्यावृत्त्या करणव्यपदेशः। न तु क्रियाकरणत्वमन्यदेव कार्यकरणाभ्यां। अधिगमाकारयोस्तु व्यवस्थाप्यव्यवस्थापकभावः क्रियाकरण भावः (1) यथा यः कम्पते सोऽश्व इति (1) उक्ता प्रमाणफलव्यवस्था॥xx ॥ (३१९)