________________
प्रमाणफलचिन्ता
२१३
अथैतद्दोषतया द्वयोः क्रियासाधनयोः क्रमभाविनोरेकार्थत्वे एकविषयत्वे च स्वीक्रियमाणे द्वयं भिन्नं प्रमाणं फलं च व्यथं विशेषणज्ञानं प्रमाणं फलं चास्तु विषयस्वरूपत्वादधिगमस्वभावाच्च । ततः परं तु विशेष्यज्ञानमधिगताधिगन्तृत्वादनुपयुक्तं । न चैकविषययोर्ज्ञानयोः क्रमभावितास्ति विषयस्य तज्जननशक्तस्य क्रमेण स्वकार्यजननविरोधात् । (३१४)
सकृदुत्पत्ता' वेव विशेषणविशेष्यधियोः प्रमाणफलता भविष्यतीति चेत् । 422 आह (1)
`साध्यसाधनताभावः सकृद्भावे ;
सकृद् भावे साध्यसाधनतायाः अभावः । कार्यकारणभावविशेषत्वेन तस्या
इष्टत्वात् ।
नन्वेवमाकाराधिगमयोरेकज्ञानात्मत्वेपि प्रमाणफलताऽनुपपन्नेत्याह (1)
धियशयोः ।
तदुव्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ॥३१५॥
'धियोऽशयोराकाराधिगमलक्षणयोः
साध्यसाधनसंस्थितिः क्रियाकरणव्य
वस्था ।
तद्व्यवस्थाश्रयत्वेनाकारवशेनाधिगतिविशेषव्यवस्थानात् ।
नास्त्यत्र
कार्यकारणात्मकः क्रियाकरणभावः किं तु व्यवस्थाप्यव्यवस्थापकभावः । स च
तादात्म्येप्यविरुद्धः । ( ३१५)
अर्थसन्निकर्षोपि न प्रमाणमित्याह ( 1 )
सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते ।
धर्मैः स नियमो न स्यात् सम्बन्धस्याविशेषतः ॥ ३१६॥ बाह्यं सर्व्वात्मना सर्व्वेराकारैरिन्द्रियादिभिः सम्बद्धमपि कैश्चिदेव धर्मेनलत्वादिभिर्गम्यते न त्वणुपुञ्जत्वादिभिः । स एष ग्रहणस्य नियमो न स्यात् । सम्बन्धस्यापि गतिस्थितिहेतोरविशेषतः । ( ३१६)
१ प्रमाणादन्यफलवादिना ।
२ विज्ञानमेव हि विषयप्रतिभासमुत्पद्यमानं ग्राह्यग्राहकभेदवदुपलक्ष्यते तेन बाह्योर्योस्तीति नार्थाधिगतिरूपा काचित् क्रियास्ति, या प्रमाणफलत्वेन व्यवस्थाप्यत इति वृत्तिः । प्राप्यकारीन्द्रियपक्षे सर्व्वात्मना विषयस्पर्शात् सर्व्वथावसायः स्यात् सारूप्ये तु यावन्मात्रेण प्रतिबिम्बस्तावतो ग्रहान्न दोषः । ४ सन्निकर्षस्य ।
सत्रिकर्षप्रमाणत्वे ।