SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ प्र० वा० वृत्तौ ( २ परिच्छेदः) सर्व्वेषां' कारकाणां साक्षात्पारम्पर्येण क्रियां प्रत्युपयोगेपि तेषु मध्ये यत्कारकमन्त्यं कारकान्तरेणाव्यवहितव्याप्यारं सत् क्रियाभेदकं तत्तस्याः साधकतमं मतं नान्यत्। (३११) २१२ तथाहि (1) सर्वं सामान्यहेतुत्वादक्षाणामस्ति नेदृशम् । तद्भेदेपि ह्यतद्रूपस्यास्येदमिति तत्कुतः ॥३१२॥ अक्षाणां तावदीदृशं साधकतमत्वं नास्ति सव्र्व्वं सामान्यहेतुत्वात् । 'सर्व्वज्ञानसाधारणहेतुत्वात् । अवान्तराधिगतिभेदकत्वानुपपत्तेः । तेषामिन्द्रियाणां प्रमादाविलत्वादिभेदेपि ज्ञानस्यातद्रूपस्य विषयसारूप्यरहितस्य इदमस्य ग्राहकमिति ग्राहकत्वं यदिष्यते तत्कुतः । ( ३१२ ) एतेन शेषं व्याख्यातं विशेषणधियां पुनः । अताद्रुष्ये न भेदोपि तद्वदन्यधियोपि वा ॥३१३॥ एतेनाक्षाणामसाधनत्वदर्शनेन शेषमालोचनार्थसम्बन्धादि व्याख्यातं । तदप्यर्थसारूप्यरहितमसाधनं।' सारूप्ये च स्वीकर्तव्ये तदेवाव्यवहितत्वात् साधनमस्तु । विशेषणधियां पुनरयमधिको दोषः । अताद्रूप्ये विशेषणसारूप्याभावे विशेष्यधियः सकाशाद्भेदोपि न स्यात् । द्वयोरप्याकाररहितत्वेन भेदस्थित्यनुपपत्तेः। ततश्चैका प्रमाणमन्या च फलमिति कुतः । अथ सारूप्यं विशेषणधियो भेदकमिष्यते । एवं च सति तदेव प्रमाणं फलं च स्यात् । अर्थसरूपत्वादधिगतिरूपत्वाच्च । तद्वद् विशेषणबुद्धेरिव अन्य बुद्धेर्विषयसारूप्यं फलात्मकञ्चेष्यतां । (३१३) किञ्च (1) ष्ट विषयभेदोपि क्रियासाधनयोर्द्वयोः । एकार्थत्वे द्वयं व्यर्थं न च स्यात् क्रमभाविता ||३१४|| क्रियासाधनयोर्विषयभेदोपि नेष्टः सर्व्वस्य । न ह्यन्यत्र परशुव्यापारश्छिदा चान्यत्र । इह तु विशेषणे प्रमाणव्यापारः क्रिया च विशेष्य इति भिन्नविषयता कथमिष्टा । 'नीलादेः । "अस्येदमित्यालोचनमित्यसिद्धेः । विशेष्यबुद्धेः । ४ द्वे ज्ञाने विशेषणविशेष्यभिन्नविषये इति विशेषणे तदधिगमरूपतया व्यापृतं विशेष्ये ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy