________________
प्रमाणफलचिन्ता
२११ तच्च ज्ञानमात्मनि तामर्थ सल्पता दधान बिभ्रद् अर्थस्याधिग' मनात्मनाऽधिगमलक्षणेन (३०७)
सव्यापारमिवाभाति व्यापारेण स्वकर्मणि ।
तद्वशात्तव्यवस्थानादकारकमपि स्वयम् ॥३०८॥ व्यापारेण सव्यापारमिव स्वकर्मणि ग्राह्ये आमाति,व्यापारमपि वस्तुतोऽकारकमपि स्वयं तद्वशान्मयसारूप्यवशात्तस्याधिगमस्य व्यवस्थानात् । (३०८)
यथा फलस्य हेतूनां सदृशात्मतयोद्भवाद् ।
हेतुरूपग्रहो लोकेऽक्रियावत्वेपि कथ्यते ॥३०९॥ यथा लोकेपि हेतूनां सदृशात्मतया सदृशरूपतयोभवात् । फलस्याक्रियावत्त्वेपि हेतुरूपग्रहणव्यापाराभावेपि हेतुरूपग्रहः कथ्यते पितू रूपं गृहीतं सुतेनेत्यादि। अतोऽर्थरूपतां मुक्त्वाऽधिगतिसाधनमन्यदयुक्तं। (३०९)
आलोचनाक्षसम्बन्धविशेषणधियामतः। - नेष्टम्प्रामाण्यमेतेषां व्यवधानात् क्रियाम्प्रति ॥३१०॥
अत आलोचनस्यार्थालोचनमा त्रस्य जात्यादिविशिष्टनिश्चयफलं प्रति। अझसम्बन्धस्य इन्द्रियार्थसन्निकर्षस्यालोचनफलं प्रति विशेषण(स्य) वेद्यविशेष्यबुद्धिफलं प्रति प्रामाण्यं साधनत्वं मेष्टं। एतेषामालोचनार्थसम्बन्धविशेषणज्ञानानां क्रियायामधिगतिविषयसारूप्येण व्यवधानात् । (३१०) व्यवस्थापि साधकतमत्वं स्यादिति चेत्। आह। '.
सर्वेषामुपयोगेपि कारकाणां क्रियाम्प्रति । यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम् ॥३११॥
यदाकारमुत्पद्यते तत्र प्रमाणमपचर्यते। .. २ विना हि क्रियां न करणं । अर्थतत् क्रियाव्याप्यं कर्म वेति विषयाधिगतिः कर्मव्यापारः प्रतिपत्तृधर्मस्वादस्या एतया हि विषयो व्याप्यते। व्यवसायवशाच्च कर्तृगतापि विषयगता व्यवस्थाप्यते यथाध्यवसायं सर्वव्यवहारवृत्तः (1) तत्र च साधकतमस्वव्यापारेण तदानुकूल्योत्पत्या अर्थसारूप्यं करणमिति कर्ता कर्म करणं क्रिया चेति चतुष्टयमुक्तं ज्ञेयं।
प्रथमं जगति किमप्येतवित्यालोचनं । नागृहीतविशेषणा विशेष्ये धीः (1) विशेषणं जातिगुणक्रियादयः।