________________
२१०
प्र० वा० पृतो (२ परिच्छेदः) ____एनामधिगतिमर्थरूपतामर्थसरूपतां मुक्त्वा न हन्यः कश्चिन्द्रियादिः स्वभेदात् कथञ्चन केनापि प्रकारेण ज्ञानस्य भेद कोप्यर्थेन ज्ञेयेन घटयति योजयति नीलस्येयमधिगतिः पीतस्य चेयमित्यादि । तथा हि यद्यपि प्रत्यर्थं प्रतीन्द्रियञ्च ज्ञानानामस्ति भेदः तथापि विषयसारूप्याभावे स एव विशेषोऽशक्यनिर्देशः । अथ विशेषोप्यधिगतेरेव व्यवस्थाप्यत इति चेत्। ननु तस्या एव' व्यवस्थापकमिष्यते । न चाव्यस्थिते व्यवस्थापके व्यवस्थाप्यसिद्धिः। ननु न सर्वत्र परशुव्यापारदृष्टिपूविकाच्छिदासिद्धिः । छिदादर्शनादपि परशुब्यापारव्यवस्थितेः । एवमिहाप्यधिगतिपूविकायां प्रमाणस्थितौ न दोषः। असमानमेतत् । तथा हि परशुच्छिदयोः कार्यकारणभावविशेषः क्रियाकरणभावः । अधिगतिज्ञानात्मभूतविशेष योस्तु व्यवस्थाप्यव्यवस्थाकभाव एषितव्यः। उभयोरपि ज्ञानस्वरूपात्मत्वात्। तत्र कारणमज्ञातमपि स्वकार्य निर्वर्तयतीति कार्यदर्शनाच्च तद्व्यवस्था युक्तव। व्यवस्थापकस्तु नानुपलक्षितो व्यवस्थाप्य व्यवस्थायां क्षमते। न ह्यप्रतीतं कल्प्यमानं आश्वस्त्वं व्यवस्थापयति । (३०५)
माता (२०५) .. तस्मात्प्रमेयाधिगते. साधनं मेयरूपता। . - साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिध्यति ॥३०६॥
तस्मात्प्रमेयाधिगतेः फलभूतायाः व्यवस्थाप्यायाः साधनं प्रमाणं मेयरूपता। । अथ न सारूप्यं तस्य प्रतिविषयं भिन्नस्य सूपलक्षणत्वात् सारूप्यात्पुनर'न्यत्र साधने
तस्याः क्रियायाः कर्मसम्बन्धो नीलस्येयमधिगतिः पीतस्य चेत्यादि न सिध्यति । इन्द्रियाधिगतिविशेषस्य . सम्भवेप्यनुभवमात्रात्मकज्ञानस्याविशेषकत्वायोगात्। ज्ञानगतस्यापरविशेषस्य लक्षणभेदेनानुपलक्षणात्। (३०६)
सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् । सा चाधिगतिरनुभवस्वभावा ज्ञानस्यात्मभूतैव । तेन प्रमाणानार्थान्तरं फर्स। प्रमेयमेव फलमित्यर्थः। ग्राह्यग्राहकभावोपि भाक्त एवेति दर्शयितुमाह (1)
दधानं तच्च तामात्मन्यथोधिगमनात्मना ॥३०॥
'अत्रैव तादात्म्यात्। इन्द्रियमाविलं ज्ञानञ्च तथा।
अधिगतेरेव व्यवस्थापकं सारूप्यस्य। सारूप्यं। बाश्वतस्तस्य भावः।