SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रमाणफलचिन्ता २०६ व्यवधानेन भवति स तस्याः कारणमुच्यते । ततश्चेन्द्रियादेः प्रमितिं प्रत्यव्यवहित-- साधकत्वाभावात् न प्रमाणं । (३०१) किन्तहि प्रमाणमस्तीत्याह (1) तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः। भाव्यन्तेनात्मना येन प्रतिकर्म विभज्यते ॥३०२॥ तत्र रूपादौ कर्मणि ज्ञानस्यानुभवमात्रेणानुभवात्मनो सदृशात्मनस्तुल्यरूपस्य' तेनात्मना स्वरूपेण प्रतिविषयं व्यतिरेकिणा भाव्यं येन प्रतिकर्म प्रतिविषयज्ञानं विभज्यते। नीलस्येदं पीतस्येदमिति। अन्यथानुभवमात्रतया सर्वत्र विषये सदृशं ज्ञानं प्रतिविषयं कथं भेदेन व्यवस्थापयितुं शक्येत । (३०२) स्यादेतदिन्द्रियादेर्हेतोः सव्यापा' रतादिलक्षणो विशेषो ज्ञानानां भेदेन नियामकमित्याह (1) अनात्मभूतो भेदोस्य विद्यमानोपि हेतुषु । भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥३०३॥ . हेतुष्विन्द्रियादिषु भेदो विशेषः सव्यापारतादिलक्षणो विद्यमानोप्यस्य ज्ञान स्यानुभवमात्रात्मतया भिन्नस्य भिन्ने कर्मणि नीलादौ ग्राह्ये भेदेन नियामको न युक्तः। कस्मादित्याह (1) अनात्मभूतः। ज्ञानास्वरूपत्वादिन्द्रियस्य विशेषः प्रतिकर्म न भेत्तुमर्हति। (३०३) ....... तस्माद् यतोस्यात्मभेदादस्याधिगतिरित्ययम् । क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥३०४॥ तस्मावस्य ज्ञानस्यात्मभेदात् यतोऽस्यार्थस्येयमधिगतिरिति क्रियाया अधिगतेः कर्मणि वेद्ये नियमः सा क्रिया तत्प्रसाधना तत्करणाऽभ्युपगन्तव्या। (३०४) स्यादेतद् (1) इन्द्रियादिरेव स्वभेदाद् भेद को ज्ञानस्य प्रतिविषयमधिगतेनियामकः। ततश्चानुभवात्मत्वादविषय एवासिद्ध इत्याह (1) अर्थेन घटयत्येनां न हि मुक्तवार्थरूपताम् । अन्यः स्वभेदाज्ज्ञानस्य भेदकोपि कथञ्चन ॥३०५॥ ' आविलतादि। विषयसारूप्यानपिगमे निराकारवादिनः सर्व शानं बोषरूपतामात्रेणावशिष्टं विषयाधिगते हेतुरिति स्थितिः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy