________________
२०८ . प्र० वा० वृत्तौ (२ परिच्छेदः)
यथानुभवं समदेशकालस्यान्यस्य चित्तसन्ताने यथा अहिरहिरित्युपदर्शनेन सर्पभ्रान्तिरर्यते। तथा द्विचन्द्रादिभ्रान्तिरपि तस्या वाचकैः शब्दैरर्येत सामग्रीतुल्यत्वात् । तिमिर स्य चाहेतुकत्वात् । अपि च(1) यथा मरीचिषु तरङ्गजलसमासु पूर्वदृष्टजलस्मरणसापेक्षा जलभ्रान्तिः । तत्र द्विचन्द्रादिभ्रान्तिरपि मानसीत्वात् वृष्टचन्द्रद्वयस्मृतिमपेक्षेत। न चेयं स्मरणसापेक्षा चक्षुविस्फारणमात्रेण स्फरणात्। 'तथा मानसीत्वात् परिस्फुटं सुव्यक्तग्राह्याकारा न भासेत।' जलादिभ्रान्तिरिव। (२९८)
सुप्तस्य जाग्रतो वापि यैव धीः स्फुटभासिनी।
सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥२९९॥ तस्मात्सुप्तस्य जाग्रतोपि वा यैव धीः स्फुटावभासिनी व्यक्तग्राह्याकारा सा 41 निर्विकल्पाऽभ्युपगन्तव्या' अन्यथैव ह्यस्फुटावभासिनी धीरुभयथा सुप्तस्य जाग्रतो पि वा कल्पिका युक्ता। (२९९) यत एवं (1)
तस्मात्तस्याविकल्पेपि प्रामाण्यं प्रतिषिध्यते ।
विसंवादात्तदर्थे च प्रत्यक्षाभं द्विधोदितम् ॥३०॥ तस्मात् कल्पनापोढमित्युक्ते तिमिरज्ञानस्याविकल्पे निविकल्पत्वेपि सति प्रामाण्यं प्रत्यक्षात्मकं प्राप्तं सतमिरमित्यपवादेन विसम्वादात् प्रतिषिध्यते । संवादलक्षणत्वात्प्रामाण्यस्य । तदर्थमुपप्लुतज्ञाननिवृत्त्यर्थं चाचार्य दिङ नागेन प्रत्य क्षाभं संक्षेपतो द्विधोक्तं सविकल्पमविकल्पञ्च। उक्तं प्रत्यक्षाभं ॥xx॥(३००)
८. प्रमाणफलचिन्ता प्रमाण फलव्यवस्थां कर्तुमाह।
क्रियासाधनमित्येव सर्व सर्वस्य कर्मणः ।
साधनं न हि तत्तस्य साधनं या क्रिया यतः ॥३०१॥ क्रियायाः साधनं हेतुरित्येव न हि सर्व कारणं सर्वस्य कर्मणः क्रियायाः साधनं करणं (1) किन्तर्हि तद्वस्तु तस्य कर्मणः साधनं करणं या क्रिया यतः पदार्थाद
१"न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता"।। कल्पनापोढवचनादेव निवृत्तः। अभ्रान्तत्वे यत्नवयं स्यात्।