________________
प्रत्यक्षाभासचिन्ता
२०७
aamukd
a ma-
Rat
तोऽन्यथा विद्य'माना नीलाधाभासस्य द्विचन्द्राचामासस्य च शायस्य कारणीभवन्तीति। (२९४) स्यादेतत् (1)
पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे। ...
विचार्यमाणे प्रस्तावो मानसस्येह कोहराः॥२९५॥ 'मानसस्य प्रत्यक्षस्येन्द्रियं पारम्पर्येण हेतुः। तेन विरोधाभावश्चेत् । वाद विधि प्रकरणे इन्द्रियज्ञानस्य प्रत्यक्षस्य गोचरे विचार्यमाणे मानसस्य विकल्पस्य इहावसरे कीदृशः प्रस्तावः । येन परम्परया तहेतुरिन्द्रियमुच्यते। (२९५)
किम्वन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् ।
तत्तुल्यं विक्रियावञ्चत् सैवेयं किं निषिष्यते ॥२९६।।------- - तिमिरज्ञानं भ्रममनिच्छतोपि किं कीदृशमैन्द्रियज्ञानमिष्यते। यवक्षाणां भावाभावयोरनुरोषि स्वभावाभ्यामनुवर्तकं तदैन्द्रियमिति चेत्। तत इन्द्रियभावाभावानुरोधित्वं तैमिरिकज्ञानस्यापि तुल्यं (1) न हीन्द्रियव्यापारमन्तरेण तैमिरिकज्ञानमुत्पद्यते। इन्द्रियविकारेण विक्रियावत् ज्ञानमैन्द्रियं चेत् द्वि चन्द्रादिज्ञानानां तिमिरादीन्द्रियविकारेण विक्रिया (1) सैवेयमभूतार्थोपदर्शनात्मिका भ्रान्तत्वनिमित्तमुक्तास्माभिः किं निषिष्यते। (२९६)
सप्पादिभ्रान्तिवञ्चास्याः स्यादक्षविकृतावपि ।
निवृत्तिर्न निवर्तेत निवृत्तेप्यक्षविलवे ॥२९॥ यदि च विचन्द्रादिधीर्मानसी भ्रान्तिस्तदा सर्पोचितदेशे मन्दमन्दालोके रज्वादौ संस्थानसाम्यग्रहात् उत्पन्नायाः सर्पादिभ्रान्तेरिव मरीचिषु जलभ्रान्तेरिव यथा प्रत्यक्षं विचारात् । अस्य(1) द्विचन्द्रादिभ्रान्तेरक्षविकृतावपि सा निवृत्तिः स्यात् । अक्षविप्लवो हि न तस्या हेतुः (1) ततश्च सत्यपि तस्मिन् विमर्शान्निवर्तते सर्पबुद्धिरिव तथा ह्यक्षविप्लवेपि तिमिरादौ निवृत्तेपि तत्त्वमविचारयतो न निवर्तते तद्विचन्द्रबुद्धिः । अक्षविप्लवस्य तत्कारणत्वाभावात्। अकारणनिवृत्तौ च निवृत्त्ययोगात्। (२९७) किञ्च (1) . कदाचिदन्यसन्ताने तथैवार्येत वाचकैः।
दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥२९८॥
'अजाजीपुष्पतुल्येनासरूपकत्वेन। 'यदुक्तं दिग्नागेन बौदं प्रत्येतत्।
'तवनन्तरजत्वात्। 'अथ पूर्वक हित्वा।