________________
प्र० वा. वृत्ती (२ परिच्छेदः) रोपितस्य कल्पना। अन्यार्थकल्पना। ते एते कल्पने प्रत्यक्षानन्तरभावित्वेन प्रत्यक्षानुवृत्तित्वादात्मन्यपि कदाचिदविमर्शकानां प्रत्यक्षता भ्रान्तिकारणं भवतः। (२९०)
यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका ।
समयापेक्षिणी नाथै प्रत्यक्षमध्यवस्यति ॥२९१॥ aob अतो यथैवेयमनुमानानुमानिकादिपरों'सार्थकल्पना पूवं गृहीतसमयापेक्षिणी
सती स्मरणादिरूपा प्रत्यक्ष प्रत्यक्षविषयमयं ना(व्य)वस्यति। किन्तु कल्पितमेव गृह्णाति (१२९१)
तथानुभूतस्मरणमन्तरेण घटादिषु ।
न प्रत्ययोनुयस्तञ्च प्रत्यक्षात् परिहीयते ॥२९२॥ तथा संकेतकाले व्यवहारलाघवार्थ कल्पितस्य द्रव्यादेरनुमानभूतस्य पश्चास्मरणमन्तरेण घटादिषु घटोऽयमित्यायेकवस्त्ववसायी प्रत्ययो न भवति। तच्च संकेतितमारोपितं चार्थमनुयन् घटोऽयं जलमिति च प्रत्ययः प्रत्यक्षात् प्रत्यक्षत्वात् परिहीयते । तस्य वस्तुविषयत्वात् संकेतापेक्षस्य च विपर्ययात्। (२९२)
अपवादश्चतुर्थोत्र तेनोकमुपघातजम्। - केवलन्तत्र तिमिरमुपघातोपलक्षणम् ॥२९३॥
सतैमिरमिति चतुर्यों हेत्वाभासः कल्पनारहितत्वेनातिप्रसक्तायाः प्रत्यक्षताया अपवादः। अभ्रान्तत्वस्य लक्षणैकदेशत्वोपलक्षणत्वं च न तु कल्पनापोढत्वनिरा-, कृतस्योदाहरणमिदं । केवलं सतैमिरमित्यत्र तिमिरं सबाह्योपघातस्य ज्ञानविकृतिहेतोरुपलक्षणं। तेनान्ये 'न्द्रियविकारजमिन्द्रियजञ्च, निम्विकल्पं प्रत्यक्षाभासं सिध्यति (१२९३)
मानसं तदपोत्येके तेषां ग्रन्थो विरुध्यते ।
नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥२९४॥ - तद् द्विचन्द्रादिज्ञानमपि मानसं मनोभ्रम इत्येके आचार्याः। तेषामेवं वादिनां नीलद्विचन्द्राविषियाममाव्यपि हेतुरित्येतदर्थवाचको प्रन्थो विरुष्यते। ग्रन्थः पुनरयं यावच्चक्षुरादीनामप्यालम्बनत्वप्रसङ्गः। तेपि हि परमार्थ
उक्तं।
'प्रोत्रादि। कणादादयः।